This page has been fully proofread once and needs a second look.

३५८

अभिषेक नाटके

[ v. 10.3-

<page>

<speaker>
सीता -</speaker> चिरं जीव ।

<stage>
( प्रविश्य )

</stage>

<speaker>
राक्षसः - </speaker> <stage>( ससम्भ्रमम् )</stage> रामेण रामेण ।

<speaker>
रावणः-</speaker> कथं कथं रामेणेति ।

<speaker>
राक्षसः -</speaker> प्रसीदतु प्रसीदतु महाराजः । अतिपातिवृत्तान्तनिवेदन-

त्वरयावस्थान्तरं नावेक्षितम् ।

<speaker>
रावणः -</speaker> ब्रूहि ब्रूहि । किं कृतं मनुजतापसेन ।

<speaker>
राक्षसः-

</speaker> श्रोतुमर्हति महाराजः । तेन खलु,

<verse>
उदीर्णसत्त्वेन महाबलेन लङ्केश्वरं त्वामभिभूय शीघ्रम् ।

सलक्ष्मणेनाद्य हि राघवेण प्रसह्य युद्धे निहतः सुतस्ते ॥ ११ ॥
</verse>

<speaker>
रावणः -</speaker> आः दुरात्मन्! समरभीरो !

<verse>
देवाः सेन्द्रा जिता येन दैत्याश्चापि पराङ्मुखाः ।

इन्द्रजित् सोऽपि समरे मानुषेण निहन्यते ॥ १२ ॥

</verse>

<speaker>
राक्षसः -</speaker> प्रसीदतु प्रसीदतु महाराजः । महाराजपादमूले कुमारम -

न्तरेणानृतं नाभिधीयते ।

<speaker>
रावणः -</speaker> हा वत्स ! मेघनाद ! । <stage>( इति मूर्च्छितः पतति । )
</stage>

<speaker>
राक्षसः -</speaker> महाराज ! समाश्वसिहि समाश्वसिहि ।

<speaker>
रावण: - </speaker> <stage>( प्रत्यभिज्ञाय )

</stage>

<verse>
हा वत्स ! सर्वजगतां ज्वरकृत् ! कृतास्त्र !

हा वत्स ! वासवजिदानतवैरिचक्र ! ।

हा वत्स ! वीर ! गुरुवत्सल ! युद्धशौण्ड !

हा वत्स ! मामिह विहाय गतोऽसि कस्मात् ॥ १३ ॥

</verse>

<stage>
( इति मोहमुपगतः । )

</stage>

<ignore>
३८

</ignore>
</page>