2025-12-29 10:00:38 by ambuda-bot
This page has not been fully proofread.
३५८
अभिषेक नाटके
[ v. 10.3-
३ सीता - चिरं जीव ।
( प्रविश्य )
राक्षसः - ( ससम्भ्रमम् ) रामेण रामेण ।
६ रावणः कथं कथं रामेणेति ।
राक्षसः - प्रसीदतु प्रसीदतु महाराजः । अतिपातिवृत्तान्तनिवेदन-
त्वरयावस्थान्तरं नावेक्षितम् ।
९ रावणः - ब्रूहि ब्रूहि । किं कृतं मनुजतापसेन ।
राक्षसः-
:- श्रोतुमर्हति महाराजः । तेन खलु,
उदीर्णसत्त्वेन महाबलेन लङ्केश्वरं त्वामभिभूय शीघ्रम् ।
सलक्ष्मणेनाद्य हि राघवेण प्रसह्य युद्धे निहतः सुतस्ते ॥ ११ ॥
रावणः - आः दुरात्मन्! समरभीरो !
देवाः सेन्द्रा जिता येन दैत्याचापि पराङ्मुखाः ।
इन्द्रजित् सोऽपि समरे मानुषेण निहन्यते ॥ १२ ॥
राक्षसः - प्रसीदतु प्रसीदतु महाराजः । महाराजपादमूले कुमारम -
न्तरेणानृतं नाभिधीयते ।
३ रावणः - हा वत्स ! मेघनाद ! । ( इति मूर्च्छितः पतति । )
राक्षसः - महाराज ! समाश्वसिहि समाश्वसिहि ।
रावण: - ( प्रत्यभिज्ञाय )
हा वत्स ! सर्वजगतां ज्वरकृत् ! कृतास्त्र !
हा वत्स ! वासवजिदानतवैरिचक्र ! ।
हा वत्स ! वीर ! गुरुवत्सल ! युद्धशौण्ड !
हा वत्स ! मामिह विहाय गतोऽसि कस्मात् ॥ १३ ॥
( इति मोहमुपगतः । )
३८