This page has been fully proofread once and needs a second look.

<page>

<chaya>पुत्रस्यागमनेन प्र</chaya><chaya><error>ल्हा</error></chaya><chaya><fix>ह्ला</fix></chaya><chaya>दितस्य हृदयस्याद्यावेग इव संवृत्तः । अनिष्टानि
निमित्तानि च दृश्यन्ते । एवमपीदानीं हृदयस्य महानभ्युदयो वर्धते ।
सर्वथेश्वराः शान्तिं कुर्वन्तु । ]</chaya>

<stage>( त</stage><stage><error>त</error></stage><stage><fix>तः</fix></stage><stage> प्रविशति रावणः । )</stage>

<speaker>रावणः -</speaker> मा तावद्,

<verse>एषा विहाय भवनं मम सम्प्रयाता
नारी नवामलजलोद्भवलग्नहस्ता ।
लङ्का यदा हि समरे वशमागता मे
पौलस्त्यमाशु परिजित्य तदा गृहीता ॥ ४ ॥</verse>

भवति ! तिष्ठ तिष्ठ । न खलु न खलु गन्तव्यम् । किं ब्रवीषि -
उत्सृज्य त्वां राममुपगच्छामीति । आः अपध्वंस ।

<verse>बलादेव गृहीतासि तदा वैश्रवणालये ।
बलादेव ग्रहीष्ये त्वां हत्वा राघवमाहवे ॥ ५ ॥</verse>

किमनया । यावदहमपि सीतां विलोभयिष्ये । <stage>( मदनावेशं निरूप्य )</stage>
अहोतुखल्वतुलबलता कुसुमधन्वनः । कुतः,

<verse>निद्रां मे निशि विस्मरन्ति नयनान्यालोक्य सीताननं
तत्संश्लेषसुखार्थिनी तनुतरा याता तनुः पाण्डुताम् ।
सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणा
कष्टं निर्जितविष्टपत्रयभुजो निर्जीयते रावणः ॥ ६ ॥</verse>

<stage>( उपेत्य )</stage>

<verse>सीते! त्यजत्वमरविन्दपलाशनेत्रे !
चित्तं हि मानुषगतं मम चित्तनाथे ! ।
शस्त्रेण मेऽद्य समरे विनिपात्यमानं
प्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् ॥ ७ ॥</verse>
</page>