This page has been fully proofread once and needs a second look.

<page>

<speaker>काञ्चुकीयः -</speaker> अहोतुखलु विपद्यमानाभ्युदये राक्षसकुले विपन्नसर्व-
साधनस्य निहतवीरपुरुषस्य स्वयं च प्राणसंशयं प्राप्तस्येदानीमपि
प्रसन्नत्वं नोपगच्छति महाराजस्य बुद्धिः । को हि नाम,

<verse>चलत्तरङ्गाहतभीमवेलमुदीर्णनक्राकुलनीलनीरम् ।
समुद्रमाक्रान्तमवेक्ष्य तस्मै दारप्रदानान्न करोति शान्तिम् ॥ १ ॥</verse>

अपि<error>,</error> च

<verse>प्रहस्तप्रमुखा वीराः कुम्भकर्णपुरस्सराः ।
निहता राघवेणाद्य शक्रजिच्चापि निर्गतः ॥ २॥</verse>

एवमपि गते,

<verse>मदनवशगतो महानयार्थं सचिववचोऽप्यनवेक्ष्य वीरमानी ।
रघुकुलवृषभस्य तस्य देवीं जनकसुतां न ददाति योद्धुकामः ॥ ३ ॥</verse>

<stage>( प्रविश्य )</stage>

<speaker>विद्युजिह्वः -</speaker> अपि सुखमार्यस्य ।

<speaker>काञ्चुकीयः -</speaker> विद्युज्जिह्व ! गच्छ, महाराजवचनाद् रामलक्ष्मणयोः
शिरःप्रतिकृतिरानीयताम् ।

<speaker>विद्युजिह्वः -</speaker> यदाज्ञापयति महाराज: । <stage>(निष्क्रान्तः । )</stage>

<speaker>काञ्चुकीयः-</speaker> यावदहमपि महाराजस्य प्रत्यन्तरीभविष्यामि ।

<stage>( निष्क्रान्तः । )</stage>

<trailer>विष्कम्भकः ।</trailer>

<stage>( तत: प्रविशति राक्षसीगणपरिवृता सीता )</stage>

<speaker>सीता -</speaker> किण्णुहु अय्यउत्तस्स आगमणेण पहळादिअस्स हिअअस्स
अज्ज आवेओ विअ संवृत्तो । अणिट्ठाणि निमित्ताणि अ
दिस्सन्ति । एवं वि दाणि <stageadd>( अच्चाहिअं ?)</stageadd> हिअअस्स महन्तो
अब्भुदओ वड्ढइ । सव्वहा इस्सरा सन्तिं करन्तु । <chaya>[ किन्नु खल्वार्थ-</chaya>

<ignore>३५</ignore>
</page>