2026-02-11 05:45:24 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३५४</ignore>

<speaker>रामः-</speaker>अभिधीयतां मद्वचनात् स राक्षसेन्द्रः ।

मम दारापहारण स्वयङ्ग्राहितविग्रहः ।
आगतोऽहं न पश्यामि द्रष्टुकामो रणातिथिः ॥ २२ ॥

इति ।

<speaker>उभौ -</speaker> यदाज्ञापयति देवः । <stage>(निष्क्रान्तौ । )</stage>

<speaker>रामः -</speaker> विभीषण ! वयमपि तावदानन्तरीयं बलं परीक्षिष्यामहे ।

<speaker>विभीषणः -</speaker> यदाज्ञापयति देवः ।

<speaker>राम:-</speaker> <stage>( परिक्रम्य विलोक्य)</stage> अये अस्तमितो भगवान् दिवाकरः ।
सम्प्रति हि,

<verse>अस्ताद्रिमस्तकगतः प्रतिसंहृतांशुः
सन्ध्यानुरञ्जितवपुः प्रतिभाति सूर्यः ।
रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे
जाम्बूनदेन रचितः पुलको यथैव ॥ २३ ॥</verse>

<stage>(निष्क्रान्ताः सर्वे । )</stage>

<trailer>चतुर्थोऽङ्कः ।</trailer>
<metadata>div.n = 5
div.title = पञ्चमोऽङ्कः</metadata>
<heading>अथ पञ्चमोऽङ्कः ।</heading>

<stage>(ततः प्रविशति राक्षसकाञ्चुकीयः )</stage>

<speaker>राक्षसकाञ्चुकीयः-</speaker> क इह भोः ! प्रवालतोरणद्वारमशून्यं कुरुते ।

<stage>( प्रविश्यान्यो राक्षसः )</stage>

<speaker>राक्षसः -</speaker> आर्य ! अयमस्मि । किं क्रियताम् ।

<speaker>काञ्चुकीयः-</speaker> गच्छ, महाराजस्य शासनाद् विद्युज्जिह्वस्तावदा-
हूयताम् ।

<speaker>राक्षसः-</speaker> आर्य ! तथा । <stage>(निष्क्रान्तः । )</stage>

</page>