This page has been fully proofread once and needs a second look.

<page>
<ignore>ii. 13 ]</ignore>
<ignore>३२९</ignore>

हंसप्रयुक्तो वीरवाही विमानः कालेन प्रेषितो मां नेतुमागतः ।
१भवतु । अयमयमागच्छामि । <stage>( स्वर्यातः । )</stage>

<speaker>सर्वे -</speaker> हा हा महाराज !

<speaker>रामः -</speaker> हन्त स्वर्गं गतो वाली । सुग्रीव ! क्रियतामस्य संस्कारः ।

<speaker>सुग्रीवः -</speaker> यदाज्ञापयति देवः ।

<speaker>रामः -</speaker> लक्ष्मण ! सुग्रीवस्याभिषेकः कल्प्यताम् ।

<speaker>लक्ष्मणः– </speaker>यदाज्ञापयत्यार्यः ।

<stage>( निष्क्रान्ताः सर्वे । )</stage>

<titrailer>प्रथमोऽङ्कः ।</titrailer>
<metadata>div.n = 2
div.title = द्वितीयोऽङ्कः</metadata

<heading>अथ द्वितीयोऽङ्कः ।</heading>

<stage>( ततः प्रविशति ककुभः । )</stage>

<speaker>ककुभः-</speaker> निष्ठितप्रायत्वात् कार्यस्याहारव्यावृताः सर्वे वानरयूथपाः ।
तस्मादहमपि किञ्चिदाहारजातं सम्भावयामि । <stage>( तथा करोति )</stage>

<stage>( प्रविश्य )</stage>

<speaker>बिलमुखः -</speaker> पेसिओ म्हि महाळाएण सुग्गीवेण--अय्यरामस्स किदो-
वआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ
सव्वे वाणरा आअदा । तेसं दक्खिणापहमुहस्स कुमारस्स अङ्ग-
दस्स पवुत्तिं जाणिअ सिग्घं आअच्छत्ति । ता कहिंणुहु गओ
कुमारो । <stage>(परिक्रम्याग्रतो विलोक्य)</stage> एसो अय्यकउहो । जाव णं
पुच्छामि । <stage>( उपसृत्य )</stage> सुहं अय्यस्स । <chaya>[ प्रेषितोऽस्मि महाराजेन
सुग्रीवेण--आर्यरामस्य कृतोपकारप्रत्युपकारनिमित्तं सर्वासु दिशासु
सीताविचयने प्रेषिताः सर्वे वानरा आगताः । तेषां दक्षिणापथमुखस्य</chaya>

</page>