This page has been fully proofread once and needs a second look.

<page>
<ignore>३२४</ignore>
<verse>शक्रो वा भवतु गतिः शशाङ्कवक्त्रे !
शत्रोर्मे निशितपरश्वधः शिवो वा ।
नालं मामभिमुखमेत्य सम्प्रहर्तुं
विष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥</verse>
<ignore>[i. 10.-</ignore>

<speaker>तारा -</speaker> पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं
दाव करेउं अरिह<ref>१</ref>दि महाराओ । <chaya>[ प्रसीदतु प्रसीदतु महाराजः ।
अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज: । ]</chaya>

<speaker>वाली -</speaker> श्रूयतां मत्पराक्रमः ।

<verse>तारे ! मया खलु पुरामृतमन्थनेऽपि
गत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।
उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप-
माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥</verse>

<speaker>तारा-</speaker>पसीअउ पसीअउ महाराओ। <chaya>[ प्रसीदतु प्रसीदतु महाराज: । ]</chaya>

<speaker>वाली -</speaker> आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।

<speaker>तारा -</speaker> एसा गच्छामि मन्दभाआ । <stage>( निष्क्रान्ता )</stage> <chaya>[ एषा गच्छामि
मन्दभागा । ]</chaya>

<speaker>वाली -</speaker> हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि ।
<stage>( द्रुतमुपगम्य)</stage> सुप्ग्रीव ! तिष्ठ तिष्ठ ।

<verse>इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः ।
मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥</verse>

इत इतः ।

<speaker>सुग्रीवः -</speaker> यदाज्ञापयति महाराज: ।

<stage>(उभौ नियुद्धं कुरुतः । )</stage>

<footnote>१ अर्हदि ।</footnote>
<ignore>४</ignore>
</page>