This page has been fully proofread once and needs a second look.
<page>
<subtitle>॥ श्रीः ॥</subtitle>
<subtitle>अभिषेकनाटकम् ।</subtitle>
<metadata>div.n = 1
div.title = प्रथमोऽङ्कः</metadata
<stage>(नान्द्यन्ते ततः प्रविशति सूत्रधारः )</stage>
<verse><speaker>सूत्रधारः -</speaker>
यो गाधिपुत्रमखविघ्नकराभिहन्ता
युद्धे विराधखरदूषणवीर्यहन्ता ।
दर्पोद्यतोल्बणकबन्धकपीन्द्रहन्ता
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥</verse>
एवमार्यमिश्रान् विज्ञापयामि । <stage>( परिक्रम्यावलोक्य)</stage> अये किन्नुखलु
मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
<stage>( नेपथ्ये )</stage>
सुग्रीव ! इत इतः ।
<stage>( प्रविश्य )</stage>
<speaker>पारिपार्श्विकः-</speaker> भाव !
<verse>कुतोनुखल्वेष समुत्थितो ध्वनिः
प्रवर्तते श्रोत्रविदारणो महान् ।
प्रचण्डवातोद्धतभीमगामिनां
बलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥</verse>
<speaker>सूत्रधारः -</speaker> मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनित-
सन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च,
<ignore>१</ignore>
</page>