This page does not need to be proofread.

<page>
<p lang="sa">
चारुदत्तस्य कथाबस्तु ।
 
</p>
<p lang="sa">
चारुदत्तो नाम कश्चित् सार्थवाहपुत्रो विप्र उदाराशयोऽर्थिषु गलितविभव-

सर्वस्व उज्जयिन्यां श्रेष्टित्वरे निवसति स्म । तस्मिन् दृढमनुरक्ता वसन्त-

सेना नाम गणिका । अथ कदाचिद्राजवीथ्यां गच्छन्ती सा विद्वितीयेन राज-

ग्यालेन शकारेणानुगम्यमाना संभ्रान्ता प्रदोषान्धकारपूरितगम्भीरायां रथ्यायां

देवाच्चारुदत्तस्य भवनं प्राप्ता तस्माद गृहाद दीपं गृहीत्वा निष्क्रामन्ती चार-

इनवेंटी रदनिकां दृष्ट्वा पटान्तेन दीपं निर्वाप्याभ्यन्तरं प्रविष्टा । अथ विटेन

प्रोत्साहितो राजश्यालो वसन्तसेनाबुद्ध्या रदनिकां यावद् बलादाकर्षितुमारभते

स्म तावच्चारुदत्तवयस्यां मैत्रेयो दीपं गृहीत्वा तत्र पातः । स च

प्रर्पितां चेटीं दृष्ट्वा भृशमेनं निर्भयामास । अथ शकारो भवनगता वसन्त-

मना त्वया व निर्यातयितव्या इति चारुदत्तं संदिश्य निष्क्रान्तः । वसन्तसेना

तु परिचारिकाभ्रान्त्या चारुदत्तेनाभ्यन्तरप्रवेशनायार्पितं सुमनोवासितं प्रावारकं

गृहीत्वा विवर्धितमदना संवृत्ता । अनुपदमेव विदूषकर दनिकाप्रवेशाच्चारुदत्तः

स्वं प्रमादं ज्ञातवान् । वसन्तसेनाप्यभयमेनं ययाचे । तस्य हस्ते च स्वीयान

मुवणालंकारान् निक्षिप्यार्यमैत्रेयेणानुगता स्वभवनं प्रतिनिववृते ।
 
</p>
<p lang="sa">
नतोऽन्येद्युश्चारुदत्तसंवाहको द्यूतोपजीवी द्यूतकरभयाद् वसन्तसेनाभवनं

प्रविष्टः शरणागतस्तयाभयदानेन विश्वसितश्चारुदत्तगुणान् प्रशंसयामास ।

अनन्तरं तस्याश्वेटः कर्णपूर आत्मनः परिस्पन्दं वर्णयितुमारब्धः । अनेन हि

मांचितः कोऽपि वराकः प्रव्राजको हस्तिहस्तसंमर्दात् । ततोऽस्य पराक्रमेण

तुष्टश्वारुदत्त एनमात्मनः प्रावारकं दत्तवान् । ततोऽस्य गुणानुरागित्वमौदार्य च

चिन्तयन्ती वसन्तसेना दृढमुत्कण्ठिताभूत् ।
 
</p>
<p lang="sa">
अथ कदाचिद्वसन्तसेनाचेच्या मदनिकायाः कामुकः सज्जलको नाम ताम-

भुजियां कर्तुं प्रवृत्तस्तस्या निष्क्रयार्थं रात्रौ चारुदत्तगृहे सन्धि कृत्वा वसन्त-

सेनया निक्षिप्तं सुवर्णभाण्डमपजहार । तच्च गृहीत्वा वसन्तसेनागृहं प्राप्सो

मदनिकायै साहसं स्वीयं निवेदयामास । भिस्यन्तरितया वसन्तसेनयापि श्रुतं

तद्रहस्यम् । अत्रान्तरे चारुदत्तसकाशात्प्राप्तो विदूषकः " सुवर्णभाण्डं तद् द्यूते

हारितं " इत्यपदिश्य तन्मूल्यत्वेन चारुदत्तपरन्या समर्पितां रत्नावलीं तस्यै
 
</p>
</page>