2025-12-29 11:25:14 by akprasad
This page has been fully proofread once and needs a second look.
<v
षष्ठोऽङ्कः ।
धात्रीत्वमेवैति सुचेतना मे ॥ २० ॥
१८७
<p lang="sa">नारदः-अलमतिस्नेहेन । प्रविशतु कन्यापुरं सुचेतना सुचेतना
सुदर्शना सुदर्शना च सभार्येण पुत्रेण ।
३
<p lang="sa">कुन्तिभोजः - यदाज्ञापयति भगवान् ।
<p>सुदर्शना - जं भअवं आणवेदि । [ यद् भगवानाज्ञापयति । ]
<p lang="sa">नारदः - अचिरेण सौवीरराजो विसृज्यतां स्वदेशगमनाय ।
६
जयवर्मणे सुमित्रा प्रदीयतां काशिराज्ञे । त्वमपि सन्निहितो भव ।
<p>कुन्तिभोजः - अनुगृहीतोऽस्मि ।
<p lang="sa">नारद: - कुन्तिभोज ! किमन्यत् ते प्रियमुपहरामि ।
९
<p lang="sa">कुन्तिभोजः - भगवान् यदि मे प्रसन्नः, किमतः परमहमिच्छामि ।
<verse>गोब्राह्मणानां हितमस्तु नित्यं
सर्वप्रजानां सुखमस्तु लोके ।
<p lang="sa">नारदः - सौवीरराज ! किं ते भूयः प्रियमुपहरामि ।
<p>सौवीरराजः - यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।
<p lang="sa">इमामुदीर्णार्णवनीलवस्त्रां
नरेश्वरो नः पृथिवीं प्रशास्तु ॥ २१ ॥
<p>( भरतवाक्यम् )
<verse lang="sa">भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २२ ॥
<p>( निष्क्रान्ताः सर्वे )
<trailer lang="sa">षष्ठोऽङ्कः ।
७९
</page>