This page has not been fully proofread.

__vi. 22.2 ]
 
षष्ठोऽङ्कः ।
 
अवेक्षितां मातरमप्रकाश्य
 
धात्रीत्वमेवैति सुचेतना मे ॥ २० ॥
 
१८७
 
नारदः-अलमतिस्नेहेन । प्रविशतु कन्यापुरं सुचेतना सुचेतना
सुदर्शना सुदर्शना च सभार्येण पुत्रेण ।
 
३ कुन्तिभोजः - यदाज्ञापयति भगवान् ।
 
सुदर्शना - जं भअवं आणवेदि । [ यद् भगवानाज्ञापयति । ]
नारदः - अचिरेण सौवीरराजो विसृज्यतां स्वदेशगमनाय ।
६ जयवर्मणे सुमित्रा प्रदीयतां काशिराज्ञे । त्वमपि सन्निहितो भव ।
कुन्तिभोजः - अनुगृहीतोऽस्मि ।
 
नारद: - कुन्तिभोज ! किमन्यत् ते प्रियमुपहरामि ।
 
९ कुन्तिभोजः - भगवान् यदि मे प्रसन्नः, किमतः परमहमिच्छामि ।
गोब्राह्मणानां हितमस्तु नित्यं
सर्वप्रजानां सुखमस्तु लोके ।
 
नारदः - सौवीरराज ! किं ते भूयः प्रियमुपहरामि ।
सौवीरराजः - यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।
 
इमामुदीर्णार्णवनीलवस्त्रां
 
नरेश्वरो नः पृथिवीं प्रशास्तु ॥ २१ ॥
( भरतवाक्यम् )
 
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
 
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २२ ॥
( निष्क्रान्ताः सर्वे )
 
षष्ठोऽङ्कः ।
 
७९