This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
―i.6.3]

</ignore>
<ignore lang="sa">
प्रथमोऽङ्कः ।

</ignore>
<verse n="5" lang="sa">
परिहरतु भवान् नृपापवादं

न परुषमा श्रमवासिषु प्रयोज्यम् ।

नगरपरिभवान् विमोक्तुमेते

वनमभिगम्य मनस्विनो वसन्ति ॥ ५ ॥
</verse>

उभौ—अय्य ! तह ॥ [ आर्य ! तथा । ]

( निष्क्रान्तौ । )

३ यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पा-

वस्तावदेनम् ।

वासवदत्ता - अय्य! तह ॥ [ आर्य ! तथा । ]

६ यौगन्धरायणः - ( उपसृत्य । ) भोः ! किंकृतेयमुत्सारणा ।

काञ्चुकीयः- भोस्तपस्विन् ! ।

यौगन्धरायणः-( आत्मगतम् । ) तपस्विन्निति गुणवान् खल्वय-

मालापः । अपरिचयात्तु न श्लिष्यते मे मनसि ।

काञ्चुकीयः- भोः ! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेय -

स्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो
१२

महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या

राजगृहमेव यास्यति । तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः ।

तद् भवन्तः

<verse n="6" lang="sa">
तीर्थोदकानि समिधः कुसुमानि दर्भा
न्
स्वैरं वनादुपनयन्तु तपोधनानि ।

धर्मप्रिया नृपसुता न हि धर्मपीडा-

मिच्छेत् तपस्विषु कुलत्रतमेतदस्याः ॥ ६ ॥

</verse>

यौगन्धरायणः -( स्वगतम् । ) एवम् । एषा सा मगधराजपुत्री पद्मा-

वती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी

भविष्यतीति । ततः,

</page>