2025-12-29 09:59:45 by ambuda-bot
This page has not been fully proofread.
―i.6.3]
प्रथमोऽङ्कः ।
परिहरतु भवान् नृपापवादं
न परुषमा श्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते
वनमभिगम्य मनस्विनो वसन्ति ॥ ५ ॥
उभौ—अय्य ! तह ॥ [ आर्य ! तथा । ]
( निष्क्रान्तौ । )
३
३ यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पा-
वस्तावदेनम् ।
वासवदत्ता - अय्य! तह ॥ [ आर्य ! तथा । ]
६ यौगन्धरायणः - ( उपसृत्य । ) भोः ! किंकृतेयमुत्सारणा ।
काञ्चुकीयः- भोस्तपस्विन् ! ।
यौगन्धरायणः-( आत्मगतम् । ) तपस्विन्निति गुणवान् खल्वय-
९ मालापः । अपरिचयात्तु न श्लिष्यते मे मनसि ।
काञ्चुकीयः- भोः ! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेय -
स्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो
१२ महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या
राजगृहमेव यास्यति । तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः ।
तद् भवन्तः
तीर्थोदकानि समिधः कुसुमानि दर्भान
स्वैरं वनादुपनयन्तु तपोधनानि ।
धर्मप्रिया नृपसुता न हि धर्मपीडा-
मिच्छेत् तपस्विषु कुलत्रतमेतदस्याः ॥ ६ ॥
यौगन्धरायणः -( स्वगतम् । ) एवम् । एषा सा मगधराजपुत्री पद्मा-
वती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी
३ भविष्यतीति । ततः,