2025-12-29 10:45:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">स्वप्नवासवदत्ते</ignore>
<ignore lang="sa">[1.2.8—</ignore>

यौगन्धरायणः– ( कर्णे दत्त्वा । ) कथमिहाप्युत्सार्यते । कुतः,

<verse n="3">धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलै-
र्मनार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥</verse>

वासवदत्ता–अय्य! को एसो उस्सारेदि । [ आर्य ! क एष
उत्सारयति । ]

यौगन्धरायणः - भवति ! यो धर्मादात्मानमुत्सारयति ।

वासवदत्ता - अय्य! ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सार-
इदव्वा होमि त्त्ति ॥ [ आर्य ! न ह्येवं वक्तुकामा, अहमपि नामो-
त्सारयितव्या भवामीति । ]

यौगन्धरायणः-भवति ! एवमनिर्ज्ञातानि दैवतान्यवधूयन्ते ।

वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह
अअं परिभवो ॥ [ आर्य ! तथा परिश्रमः परिखेदं नोत्पादयति,
यथायं परिभवः । ]

यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता
कार्या । कुतः,

<verse n="4" lang="sa">पूर्वं त्वयाप्यभिमतं गतमेवमासी-
<error>च्छलाघ्यं</error><fix>च्छ्लाघ्यं</fix> गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्तमाना
चक्रारपंक्तिरिव गच्छति भाग्यपंक्तिः ॥ ४ ॥</verse>

भटौ—<error>उत्सरह</error><fix>उस्सरह</fix> अय्या! उस्सरह ॥ [ उत्सरतार्याः उत्सरत । ]

( ततः प्रविशति काञ्चुकीयः । )

काञ्चुकीयः-सम्भषक ! न खलु न खलूत्सारणा कार्या । पश्य,

</page>