This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
स्वप्नवासवदत्ते

</ignore>
<ignore lang="sa">
[1.2.8—

</ignore>

यौगन्धरायणः– ( कर्णे दत्त्वा । ) कथमिहाप्युत्सार्यते । कुतः,

<verse>
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलै-

र्
मनार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।

उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्च लैर्विस्मितः

कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥
</verse>

वासवदत्ता - अय्य! को एसो उस्सारेदि । [ आर्य ! क एष

उत्सारयति । ]

यौगन्धरायणः - भवति ! यो धर्मादात्मानमुत्सारयति ।

वासवदत्ता - अय्य! ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सार-

व्वा होमि त्त्ति ॥ [ आर्य ! न ह्येवं वक्तुकामा, अहमपि नामो-

त्सारयितव्या भवामीति । ]

यौगन्धरायणः-भवति ! एवमनिर्ज्ञातानि दैवतान्यवधूयन्ते ।

वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह

अअं परिभवो ॥ [ आर्य ! तथा परिश्रमः परिखेदं नोत्पादयति,

यथायं परिभवः । ]

यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता
१२

कार्या । कुतः,

<verse lang="sa">
पूर्वं त्वयाप्यभिमतं गतमेवमासी-

च्छलाध्घ्यं गमिष्यासयसि पुनर्विजयेन भर्तुः ।

कालक्रमेण जगतः परिवर्तमाना

चक्रारपंक्तिरिव गच्छति भाग्यपंक्तिः ॥ ४ ॥
</verse>

भटौ—<error>उत्सरह</error><fix>उस्सरह</fix> अय्या! उस्सरह ॥ [ उत्सरतार्याः उत्सरत । ]

( ततः प्रविशति काञ्चुकीयः । )

काञ्चुकीयः-सम्भषक ! न खलु न खलूत्सारणा कार्या । पश्य,

</page>