This page has not been fully proofread.

स्वप्नवासवदत्ते
 
[1.2.8—
 
यौगन्धरायणः–( कर्णे दत्त्वा । ) कथमिहाप्युत्सार्यते । कुतः,
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलै-
मनार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्च लैर्विस्मितः
 
कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥
वासवदत्ता - अय्य! को एसो उस्सारेदि । [ आर्य ! क एष
उत्सारयति । ]
 
३ यौगन्धरायणः - भवति ! यो धर्मादात्मानमुत्सारयति ।
 
वासवदत्ता - अय्य! ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सार-
इव्वा होमित्ति ॥ [ आर्य ! न ह्येवं वक्तुकामा, अहमपि नामो-
६ त्सारयितव्या भवामीति । ]
 
यौगन्धरायणः-भवति ! एवमनिर्ज्ञातानि दैवतान्यवधूयन्ते ।
 
वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह
९ अअं परिभवो ॥ [ आर्य ! तथा परिश्रमः परिखेदं नोत्पादयति,
यथायं परिभवः । ]
 
यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता
१२ कार्या । कुतः,
 
पूर्वं त्वयाप्यभिमतं गतमेवमासी-
 
च्छलाध्यं गमिष्यास पुनर्विजयेन भर्तुः ।
 
कालक्रमेण जगतः परिवर्तमाना
 
चक्रारपंक्तिरिव गच्छति भाग्यपंक्तिः ॥ ४ ॥
भटौ—उत्सरह अय्या! उस्सरह ॥ [ उत्सरतार्याः उत्सरत । ]
( ततः प्रविशति काञ्चुकीयः । )
 
३ काञ्चुकीयः-सम्भषक ! न खलु न खलूत्सारणा कार्या । पश्य,