This page has been fully proofread once and needs a second look.
<page>
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<subtitle lang="sa">भासनाटकचक्रे</subtitle>
( नान्यन्ते ततः प्रविशति सूत्रधारः । )
<verse lang="sa">सूत्रधारः-
उदयनवेन्दुसवर्णावास<fix>व</fix>दत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ १ ॥</verse>
एवमार्यमिश्रान् विज्ञापयामि । अये ! किं नु खलु मयि विज्ञापन-
व्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्य । )
उस्सरह उस्सरह अय्या ! उम्सरह ॥ [ उत्सरतोत्सरतार्याः !
उत्सरत । ]
सूत्रधारः - भवतु, विज्ञातम् ।
<verse lang="sa">भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥</verse>
( निष्क्रान्तः । )
<heading lang="sa">स्थापना ।</heading>
( प्रविश्य । )
भटौ — उस्सरह उस्सरह अय्या ! उस्सरह ॥ [ उत्सरतोत्सरतार्याः
उत्सरत । ]
( ततः प्रविशति परिव्राजकवेषो यौगन्धरायण आवन्तिकावेषधारिणी
वासवदत्ता च । )
</page>