This page has not been fully proofread.

स्वमवासवदत्तस्य कथावस्तु ।
 
'मगधराजपुत्री पद्मावती वत्सराजस्योदयनस्य महिषी भविष्यति' इति
सिद्धादेशप्रत्ययाद् वत्सराजमन्त्री यौगन्धरायणो रुमण्वदाद्यमात्यैः सह
संमन्य वासवदत्तां नामास्य परिणीत पूर्वा महिषीं महासेनदुहितरं लावाणक-
ग्रामदाहे दग्धामात्मानं चैनामभ्यवपत्तुकामं तस्मिन्नेवाग्नौ पतितमपदिश्य
परिवाजकवेप आवन्तिकावेषधारिणीं वासवदत्तामादाय " इयं मे स्वसा
प्रोषितभर्तृका मिमामत्रभवत्या कंचित्कालं परिपाल्यमानामिच्छामि इति
संप्रानां पद्मावत्या हस्ते न्यासीकृत्यापकान्तः । अथ वासवदत्ताविरहार्तो
वत्सराजोऽन्यप्रयोजनेन मगधेश्वरस्य पद्मावती भ्रातुर्दर्शकस्य राजधानीं राजगृहं
प्राप्तः सन् तेन राज्ञाभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव दत्तां पद्मावती
महिपीत्वेन प्रतिजग्राह ।
 
"
 
अथान्येद्युः शिरोवेदनया दुःखितां पद्मावतीमाश्वासयितुं समुद्रगृहके गतां
वत्सराजस्तामनागतां
तत्रैव शय्यायां तां प्रतिपालयन् निद्राविधेयोऽभूत ।
अस्मिन्नन्तर उपस्थिता तत्र वासवदत्ता । सा च पद्मावती स्वपितीति बुद्धगा
तस्यां शय्यायां वत्सराजस्य पार्श्व संविष्टा सती वत्सराजमुत्स्वमायमानं
श्रुत्वा सहसोत्थाय स्वमवचनानुरूपं किमप्येनमभिभाष्य शय्याप्रलम्बितं चास्य
हस्तं शयनीय आरोग्य झटिति निश्चक्राम । वत्पराजोऽपि प्रबुध्य संभ्रमेणानुधाव-
न्नेनां द्वारपक्षेण ताडितो द्गतिरभूत् । ततः किमयं भूतार्थो वा मनोरथो वेति
नाज्ञासीत् । एतदनन्तरं दर्शकस्य साहाय्येन द्विपदमारुणिमवस्कन्द्य स्वविषयान्
वस्मान् प्राप्त उदयनो रणरणकविन्नां वासवदत्ताजनन्या जामातृवात्सल्यात्
ग्रहितामात्मनो वासवदत्तायाश्च चित्रफल्के लिखितां प्रतिकृतिं पद्मावत्या सह
यावत् पश्यति तावत्तयाभिहितम् " आर्यपुत्र ! अस्याः प्रतिकृत्याः सदृशीहव
प्रतिवसति सा हि मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो
निक्षिप्तः " इति । ततस्तया सहागतां वासवदत्तां प्रत्यभिज्ञाय यौगन्धरायणस्य
सदैव स्वामिहितनिरतस्य नीतिविजृम्भितं बुद्धा परमप्रीतस्ताभ्यां परनीभ्यां सह
सुखमन्वभूत् ।
 
पुरुषाः -
 
पात्राणि ।
 
राजा - वत्सराज उदयनः ।
 
विदूषकः - वसन्तकः, उदयनस्य नर्मसुहृद् /