2026-01-20 05:20:14 by akprasad
This page does not need to be proofread.
<page>
<p lang="sa">अविमारकस्य कथावस्तु ।
</p>
<p lang="sa">ausभार्गवस्य नामास्यन्तकोपनस्य महर्षेः संवत्सरावधिशापात् सपुत्रदारः
श्वपाकत्वमवाप्तः सौवीरराजः कुन्तिभोजनगरे प्रच्छन्नं निवसति स्म । तस्या-
रमजो विष्णुसेनोऽविरूपधारिणोऽसुरस्य मारणादविमारक इति लब्धापरनामा
कदाचित् स्वमातुलस्य कुन्तिभोजस्य दुहितरं कुरङ्गीमुद्यानगतामञ्जनगिरि-
संज्ञस्य मदान्धगजस्य संरम्भात् परित्रातवान् । ततः प्रभृति प्रवृद्धानुराग-
योरनयोः कुरङ्गयविमारकयोर्घटनाय कुरङ्गया धात्री कदाचिद् रात्रावेनं सुगूढं
कुरङ्गया अन्तःपुरं प्रावेशयत् । तत्र चासावविच्छिन्नसुखसम्भोगेन तया सह कालं
यापयामास । एवं संवत्सरेऽतिक्रान्ते विदितवृत्तान्तेन कुन्तिभोजेन सुरुद्धे
कन्या पुरे, अविघ्नेन निर्गत्य कतिपयदिवसप्रोषितो स मदनेनान्तर्दह्यमानो जीवितं
धारयितुमसमर्थो दवानौ पतितोऽप्यात्मानमविकलशरीरमभिवीक्ष्य मरुस्प्र
पातार्थ कश्चिच्छैलमारुरोह । अत्रान्तरे तस्मिन्नेत्र शैलशिखरे कोऽपि विद्याधरः
प्रियतमया सह विश्रमितुमवतीर्णः प्रणिधानतो विदिततद्वृत्तान्तो दयमानोऽस्मा
अङ्गुलीयकमदात् यद् दक्षिणाङ्गल्या घृतं धर्तारं तत्स्पृष्टं तत्स्पृष्ट्रस्पृष्टं चान्तर्हितान-
करोत् । वामाङ्गल्या घृतं तु पुनः प्रकृतिस्थान् । ततस्तद दक्षिणाङ्गल्या धारयन
स्ववयस्येन विदूषकेण सह कन्यापुरं पुनः प्रविश्य तया साध स्वैरं चिरं रममाण
आसीत् । कुन्तिभोजस्तु जामातृत्वेन चिरमभिलषितस्याविमारकस्य प्रवृत्तिम-
लभमानो भागिनेयान्तरं काशिराजपुत्रं जयवर्माणं दारिकां कुरङ्गीं दातुमैच्छत् ।
अथ कालेन सौवीरराजं स्वनगर एवं प्रच्छन्नं प्रतिवसन्तं ज्ञात्वा गूढपुरुषैरेन-
मन्विष्योपलभ्य च यावत् तद्वृत्तान्तं तस्मादेव शृणोति तावत् तत्रागतो
देवर्षिर्नारदः । तेन च कथितं यथा कुमारोऽविमारकः कुन्तिभोजस्य सोदर्यायां
काशिराजमहिष्यां सुदर्शनायामग्ने रुपन्नः । तया च स्वभगिन्यै सौवीरराज-
महिष्यै सुचेतनायै मृतपुत्रायै प्रसूतिकाल एव समर्पितः । सोऽयमविमारकोऽ-
धुना विद्याधरेण प्रीत्यान्तर्धानकार्यमात्रमङ्गुलीयकं दतं धारयन् कन्यापुरं
प्रविश्य कुरङ्गया यथेष्टमभिरममाणः सुखमास्त इति । अथ अविमारकः कन्या-
पुरान् निर्गत्य देवा नारदमभिवाद्य मातुलेन स्वपितृभ्यां च सङ्गतस्तैराशी-
भिरभिनन्दितश्च ।
</p>
<p lang="en">I
</p>
<p lang="sa">७
</p>
</page>