This page does not need to be proofread.

<page>
<p lang="sa">
अविमारकस्य कथावस्तु ।
 
</p>
<p lang="sa">
ausभार्गवस्य नामास्यन्तकोपनस्य महर्षेः संवत्सरावधिशापात् सपुत्रदारः

श्वपाकत्वमवाप्तः सौवीरराजः कुन्तिभोजनगरे प्रच्छन्नं निवसति स्म । तस्या-

रमजो विष्णुसेनोऽविरूपधारिणोऽसुरस्य मारणादविमारक इति लब्धापरनामा

कदाचित् स्वमातुलस्य कुन्तिभोजस्य दुहितरं कुरङ्गीमुद्यानगतामञ्जनगिरि-

संज्ञस्य मदान्धगजस्य संरम्भात् परित्रातवान् । ततः प्रभृति प्रवृद्धानुराग-

योरनयोः कुरङ्गयविमारकयोर्घटनाय कुरङ्गया धात्री कदाचिद् रात्रावेनं सुगूढं

कुरङ्गया अन्तःपुरं प्रावेशयत् । तत्र चासावविच्छिन्नसुखसम्भोगेन तया सह कालं

यापयामास । एवं संवत्सरेऽतिक्रान्ते विदितवृत्तान्तेन कुन्तिभोजेन सुरुद्धे

कन्या पुरे, अविघ्नेन निर्गत्य कतिपयदिवसप्रोषितो स मदनेनान्तर्दह्यमानो जीवितं

धारयितुमसमर्थो दवानौ पतितोऽप्यात्मानमविकलशरीरमभिवीक्ष्य मरुस्प्र

पातार्थ कश्चिच्छैलमारुरोह । अत्रान्तरे तस्मिन्नेत्र शैलशिखरे कोऽपि विद्याधरः

प्रियतमया सह विश्रमितुमवतीर्णः प्रणिधानतो विदिततद्वृत्तान्तो दयमानोऽस्मा

अङ्गुलीयकमदात् यद् दक्षिणाङ्गल्या घृतं धर्तारं तत्स्पृष्टं तत्स्पृष्ट्रस्पृष्टं चान्तर्हितान-

करोत् । वामाङ्गल्या घृतं तु पुनः प्रकृतिस्थान् । ततस्तद दक्षिणाङ्गल्या धारयन

स्ववयस्येन विदूषकेण सह कन्यापुरं पुनः प्रविश्य तया साध स्वैरं चिरं रममाण

आसीत् । कुन्तिभोजस्तु जामातृत्वेन चिरमभिलषितस्याविमारकस्य प्रवृत्तिम-

लभमानो भागिनेयान्तरं काशिराजपुत्रं जयवर्माणं दारिकां कुरङ्गीं दातुमैच्छत् ।

अथ कालेन सौवीरराजं स्वनगर एवं प्रच्छन्नं प्रतिवसन्तं ज्ञात्वा गूढपुरुषैरेन-

मन्विष्योपलभ्य च यावत् तद्वृत्तान्तं तस्मादेव शृणोति तावत् तत्रागतो

देवर्षिर्नारदः । तेन च कथितं यथा कुमारोऽविमारकः कुन्तिभोजस्य सोदर्यायां

काशिराजमहिष्यां सुदर्शनायामग्ने रुपन्नः । तया च स्वभगिन्यै सौवीरराज-

महिष्यै सुचेतनायै मृतपुत्रायै प्रसूतिकाल एव समर्पितः । सोऽयमविमारकोऽ-

धुना विद्याधरेण प्रीत्यान्तर्धानकार्यमात्रमङ्गुलीयकं दतं धारयन् कन्यापुरं

प्रविश्य कुरङ्गया यथेष्टमभिरममाणः सुखमास्त इति । अथ अविमारकः कन्या-

पुरान् निर्गत्य देवा नारदमभिवाद्य मातुलेन स्वपितृभ्यां च सङ्गतस्तैराशी-

भिरभिनन्दितश्च ।
 
</p>
<p lang="en">
I
 
</p>
<p lang="sa">

 
</p>
</page>