2023-07-15 11:44:52 by ambuda-bot

This page has not been fully proofread.

87
 
अरे
 
(110)
 
"अरं शीघे " (स्व.)
 
पर्याप्तथादिषु अलमिति वक्ष्यमाणस्याव्ययस्यार्थेष्वव्यय मिदमिति व्या-
-
 
ख्यातारः । शीघ्र – "अरं गच्छति घोटकः' । 'तस्मा अरं गमावः' (यजुः
1-1-52 ) । पर्याप्तौ – उरुधारामरङ् कृतम् - १ (ऋ. 8-1-10 ) ।
 
भूषणे –'त्वमग्ने द्रविणोदा अरङ्कृते - १ (ऋ. 2-1-60)। 'समु-
चितरीत्या, इत्यर्थेऽपि वेदेष्वयं प्रयुक्तः । तद् यथा- 'प्रवाम् इष्टयोडरमश्नु-
वन्तु ।' (ऋक् 6-74-1) इत्यादिषु ।
 
-
 
(111)
 
"अरे हीनसम्बोधने " (च.)
 
'हीनानां सावक्षेपे सम्बोधने' इति क्षीरस्वामी। अपकृतिः, असू-
या चास्यार्थी- इति मेदिनी। 'अपाकृतिः' इति शब्दकल्पद्रुमः । न वा
अरे पत्युः कामाय –' (बृहदारण्यकोपनिषत् 6-5-6) इत्यादिषु याज्ञवल्क्यं
 
1.
 
'कपिलकादीनां संज्ञाच्छन्दसो:' (वा. 8-2-18 ) इति वचनेनात्र
लस्वविकल्पः ।
एवञ्च 'अलम्' इत्यस्यैव पाक्षिकं रूपमेवमिति
ज्ञेयम् ।