2023-07-15 11:44:51 by ambuda-bot

This page has not been fully proofread.

30
 
"अभीक्ष्णम् पौनःपुन्यसातत्ययोः' (ख.)
 
पौन:पुन्यम् = भृशम् इत्यर्थः । भृशार्ये यथा - 'अभीक्ष्ण-
मुष्णैरपि तस्य सोष्मणः – 1' (माघे 1-65 ) ।
 
-
 
सातत्ये — 'अभीक्ष्णमास्फालयतीव (भ) कुम्भम् – 1' (ग-र-म) ।
अन्न शब्दकल्पद्रुमे, अभिपूर्वकात् क्ष्णुधातोर्डमुप्रत्यये पृषोदरादित्वेन (6-3-109)
' अभि इत्यस्य दीर्घे, खरादित्वेन (1-1-37) अव्ययत्वे च 'अभीक्ष्णम्,
इति सिद्ध्यति इति प्रतिपादितम् । एतादृशानामव्ययानां स्वरादिषु (1-1-37),
चादिषु (1-4-57) वा स्वरूपतो निपातनमेव शाब्दिकसम्मतम् । लक्षणलब्धा-
न्यव्ययानि त्रिप्रकाराण्येव । तदुक्तं धर्मकीर्तिना— " लक्षणलब्धानि त्रेधा
 
तद्धितान्तभेदेन ।
 
अव्ययीभावाव्ययानि
 
अभीक्ष्णम्
 
(96)
 
भवन्ति – अव्ययीभाव कृदन्त
 

 
यथा –'मध्येगङ्गम्' इत्यादीनि ।
 
ल्यप्
 
-
 
-
 
-
 
-
 
णमुलू प्रत्ययान्तानि
 
।" इति (रूपावतारे - अव्ययावतारः पु. 128–129)।
 
एतेन 'अभीक्ष्णम्' इत्यादिकानां व्युत्पत्तिप्रदर्शनं व्युत्पत्तिपक्षे रूपनि-
*पादनप्रक्रियाज्ञापनार्थमेवेति मन्तव्यम् । 'आयनेयी—' (7-1-2) सूत्र-
भाष्यरीत्या पाणिन्यादिनां परमर्षीणाम् अव्युत्पत्तिपक्षस्य प्रामाणिकत्वात्
•अस्माभिः एतादृशस्थलेषु व्युत्पत्तिरुत्तरत्र न प्रदिदर्शयिषितेति ज्ञेयम् ।
'च, वा, हि' इत्यादीनामपि शाकटायनमतरीत्या भानुजीदीक्षित-
प्रभृतिभिः व्युत्पत्तिरमरव्याख्यासु प्रदर्शिता । तादृशेष्वपि निरुक्तदिशा
चयमौदासीन्यमेव वहाम इत्यपि ज्ञेयम् ।
 
कृदन्ताव्ययानि तुमुन्— क्त्वा-
। तद्धितान्ताव्ययानि – आम्
 
-