2023-07-15 11:44:50 by ambuda-bot

This page has not been fully proofread.

42
 
"अपसलवि" (स्व. चा.)
 
प्रदेशिन्यङ्गुष्टमध्यतो दीयमानस्य पितृतीर्थस्य पिण्डादेश्चैव प्रयोगो
वैदिकग्रन्थेषु दृश्यते । "सन्चैनैव पाणिना सूत्रतन्तुं गृहीत्वा 'अपसलवि
पूर्वस्यां........ पिण्डे निद्रध्यात् ।" इति गोमिलसूत्रं ( 1-3-24 ) वाचस्पत्य
 
उपात्तम् ।
 
66
 
अपि
 
(87)
 
(88)
 
6
 
- बन्धस्थगनोपगमेष्वपि ॥ " ( उ. क. नि.)
 
बन्धे'.... वितत्य शार्ट्स कवच 2 पिना' (भ. का. 3-17 ) ।
स्थगने–' अश्वाः 'च्यधुर्वसुमतीमतिरोचमानाः ॥' (भाघे 5–4)।
उपगमे – ' अथेतरे दुःखमेवापि यन्ति ।'
 
1. अपपूर्वकस्य सलधातोबीहुलकात् अविप्रत्यये, समुदायस्य चादिषु
स्वरादिषु वा पाठाव्ययत्वम् । 'प्रसलवि ' इत्यस्य देवतीन
इत्यर्थः । तस्य प्रतिपद्मेतदित्यपि ज्ञेयम् । अवलसवि ' इति क्वचित्
पाठो दृश्यते ।
 
6
 
2.
 
' उपसर्गी: क्रियायोगे (1-4-59) इति नहधातुयोगे 'अपि '
इत्यस्योपसर्गसंज्ञायाम्, 'ते प्राग् धातोः' (1-1-80) इति नियमात्
(गत्युपसर्गसंज्ञकानां) धातो: प्राकू प्रयोगः । तख, 'वष्टि भागुरिरल्लो-
पमवाप्योरुपसर्गयोः ।' (सिद्धान्तकौमुद्यामव्ययप्रकरणे पठित: श्लोकोऽ-
यम्) इति वचनेन अपेरकारस्य लोपे रूपमेवम् ।
 
1
 
3. स्थगनम् = तिरोधानम् । प्यधुः इत्यत अपिपूर्वाद दधातेर्लुङ्
 
वष्टि भागुरि:-' इत्यत्राप्यपेरकारलोपः ।