2023-07-15 11:44:50 by ambuda-bot

This page has not been fully proofread.

'अपरेधु: " (त.)
 
अपरस्मिन् अहनि इत्यर्थे अपरशब्दात् एधुसुच्प्रत्यये रूपमेवम् ।
" पूर्वेधु' रपरेधुर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत विप्रान् "
इति स्मृतिवाक्यं किञ्चित् शब्दकल्पद्रुमादिप्रपात्त मिहावधेयम् ।.
 
(86)
 
अपष्टु" (ख. च.)
 
निर्दोषे, शोभने, तथा विपरीते चार्थेऽव्ययमेतत् चादिषु स्वरादिषु वा
ज्ञेयम् । प्रतिकूलविरुद्धार्थी तु विपरीतार्थस्यावस्थाविशेषौ एव । काल-
रूपार्थे तु पुल्लिङ्गत्वमस्यैव । विपरीतार्थे यथा- 'तब धर्मराज इति नाम
कथमिदम अपष्टु पठ्यते ।" (शिशुपालवधे 15-17 श्लोक: 1) निर्दोष-
शोभनार्थयोरप्येवमुदाहार्यम् ।
 
1.
 
2.
 
अपष्टु
(85)
 
6
 
66
 
पूर्वान्यान्यतरेतरापराघरोभयोत्तरेभ्य एधुसुच' (वा. 5-3-22)
इति अपरशब्दादेयुसुच्प्रत्यये रूपमेवम् । सिद्धान्तकौमुद्यादिषु
एयुस्प्रत्ययान्तत्वेनाय शब्द: साधितः । अन्तोदात्तस्वरप्राप्तवर्थ भाष्ये
एयुसुच्प्रत्ययान्तत्वेन निष्पादितत्वात् ए युसुजन्तत्वमेव प्रामाणिकमिति
ज्ञेयम् ।
 
6
 
4
 
अपदुःसुभ्य: स्थः (कु:)' [दशपायुणादिः 1-110] इति
स्थाधातोरपपूर्वकस्य कुप्रत्यये, आतो लोप इति च (6-4-64)
इस्याकारलोपे, 'सुषामादिषु च' (8-3-98) इति षत्वे च रूपमेवम् ।
न्यासकारस्तु मृगय्वादित्वात् (द. उ 1-121) कुप्रस्थये रूप
साधयति । i