2023-07-15 11:44:49 by ambuda-bot

This page has not been fully proofread.

अपरम्
 
वर्जनार्थे कर्मप्रवचनीयः । अप साकेताद् वृष्टो देव: । 'यत्
सम्प्रत्यप' लोकेभ्यो लङ्कायां वसतिर्भयात् ॥' (भ. का. 8-87 ) ।
 
त्वराऽपि कचिदर्थोऽस्य । यथा – 'खडगापगारं खड़गापगोरं
वा युध्यन्ते ।' इति । 'अपादानम्' इत्यादिषु अप इत्येतस्य विश्लेषद्योतकत्व-
भेवेति नार्थान्तरत्वकल्पनं न्याय्यम् ।
 
(80)
 
अपदक्षिणम्" (तिष्ठद्गु.)
 
अपगता दक्षिणा यत्र नद् अपदक्षिणम् । गणरत्नमहोदधि-
पठितमिदमव्ययम् । अपदक्षिणम् = अपसव्यम् ।
 
(81)
 
अपरम्" (ख. चा )
 
अपरम् = भविष्यत्काले । यथा— 'तावामय
 
-
 
तावपरं हुवेम - "
 
(ऋक. 1-184-1) 'उतापरं तुविजात ब्रवाम । (ऋक. 2-28-8) इति ।
छान्दसोऽयम् । भाषायामपीति केचित् ॥
 
39
 
1.
 
M
 
अप लोकभ्यः = लोकान् वर्जयित्वेत्यर्थः । ' अपपरी वर्जने' (1-4-88)
इति कर्मप्रवचनीय संज्ञायाम्, 'पञ्चम्यपाङपरिभिः' (2-3-10) इति
पञ्चम्यति ज्ञेयम् । '
 
खड़गमुद्यम्य युध्यन्त इत्यर्थे परीप्सायाँ गम्यायां (परीप्सा==त्वरा)
 
द्वितीयांच' (3-1-53) इति णमुल् । 'अपगुरो णमुलि
 
(6-1-53) इत्याकारविकल्पः । णमुलो मान्तकृत्वा दुव्ययत्वम् ।
 
तिष्ठद्गुप्रभृतीनि च (2-1-17) इत्यत्र गणे निपातनात अध्ययी-
भावसमासः ॥ तेनाव्ययत्वम् । अत्र गणे पठितानां शब्दानां
कालवाचकत्वम्, देशवाचकत्वं च 'यथासम्भवं ग्राह्यम् - इति वृद्धाः ।
तेनात्र शब्दशक्तिस्वाभाव्यात अपसव्यरूपदेश वाचकत्वे ऽस्या व्ययस्य
वृत्तिरिति ज्ञेयम् ।
 
2.
 
3.
 

 
4
 
9