2023-07-15 11:44:49 by ambuda-bot

This page has not been fully proofread.

अप
 
37
 
अयं च कृञ्धातौ परत: विकल्पेन गतिसंज्ञां प्राप्नोति । तेन ' कुगति-
प्रादयः' (2-2-18) इति यदा समासः, तदानीम्, अन्वाजेकृत्य इति
ल्यप् समासप्रयुक्त: प्राप्नोति । यदा तु न गतिसज्ञा, तदानीम्, समासा-
भावात् अन्वाजेकृत्वा इति सिद्धयति । अन्वाजेकृत्य = दुर्बलस्य बलाधानं
कृत्वेत्यर्थः ।
 
(78)
 
"अन्योन्यस्य परस्परार्धे " (चादिः)
 
विभक्तिप्रतिरूपकमव्ययमिदम् । 'अन्योन्यस्य स्मरन्ति । परस्परं
स्मरन्ति इत्यर्थः । अत्र ' कर्तव्यतिहारे सर्वनानो द्वे वाच्ये समासवच्च बहुलम्,
(वा. 3-1-12) इति वचनात् सर्वनामसंज्ञकस्य अन्यशब्दस्य कर्मव्यतीहारार्थे
वर्तमानस्य द्विवेचन कृते, बहुमणात अन्यशब्दस्य समासबद्भावाभावे च
सति 'असमासवापूर्वपदस्थ सुपः सुवक्तव्य (वा. 8-1-12) इति
वचनेन पूर्वत्र सुः । समुदायात पी एवं परिनिष्टितस्य चादिषु पाठात्
षष्टीविभक्तिप्रतिपकव्ययत्वम् इति श्रेषण ।
 
(79)
 
"अप"
 
"अप अन्यथावे विश्लेषे हासोदघाटनवारणे ।
ईप्साव्यावृत्त्यनुत्कर्ष मक्कारोग्रासमुक्ति ॥
प्रतिदान व्याजदोपद्रोहनिरूखलने [लखने ? ] ।
चौर्यनिर्देशपूजासु वैकृत्यांशे विपर्यये ॥" (उ.ग. क. चा.)
वर्जनादिष्वपि दृश्यते ।