2023-07-15 11:44:49 by ambuda-bot

This page has not been fully proofread.

अन्वाजे
 
(74)
 
"अन्यदा कालान्तरे " (त.)
 
' सर्वेकान्यकिंयत्तदः काले दा' (5-3-15) इति कालवाचिनोऽन्य-
शब्दस्य सप्तम्यर्थे दाप्रत्ययः । स चार्य प्राग्दिशीयप्रत्यय इति विभक्तिसंज्ञाया-
मस्यासर्वविभक्तितद्धितत्वादव्ययत्वम् । 'अन्यदा भूषणं पुंसां क्षमा लज्जेव
योषितः । इति माघः (2-44 ) ।
 
(75)
 
अन्येद्युः दिवसान्तरे" (त.)
 
पूर्वे शुरन्येद्युः
 
अन्यस्मिन् दिने—अन्येद्युः । 'सथ: परुत् परार्येषमः परेथव्यथ
(5-3-22) इत्यत्र 'पूर्वान्यान्यतरेतरापराधगेभ्योत्तरेभ्य
एधुसुच' (वा. 5-3-22) इति वचनादन्यशब्दात् युसुच्प्रत्यये रूपमेवम् ।
' तद्धितश्चासर्वविभक्तिः' (1-1-38) इति अव्ययत्वम् । 'परेद्यव्यय पूर्वेद्यु-
रन्येधुश्रापि चिन्तयन् ।' इति भट्टि (1-13) ।
 
(76)
 
"अन्वहं दिने दिने" (अव्य.)
 
सप्तम्यर्थ वीप्सायामव्ययीभावसमासे समासान्तष्ट-प्रत्ययः । अव्ययी-
36
 
66
 
भावसमासत्वाव्ययत्वम् ।
 
(77)
 
अन्वाजे दुर्बलस्य बलाधाने" (नि. ग.)
 
अनु +आ+जयत्यनेन इत्यर्थे जिवातोर्डप्रत्यये सप्तमीविभक्तिप्रतिरूप
कतया 'उपाजे अन्बाजे' (1-4-73) इत्यत्र निपातना देकारातत्वमस्य ।