2023-07-15 11:44:49 by ambuda-bot

This page has not been fully proofread.

अन्यथाकारम्
 
(72)
 
" अन्यथा अन्यप्रकारे" (त.)
 
अन्यशब्दात् 'प्रकारवचने थाल' (5-3-23) इति थाळप्रत्यये
तस्य च प्रत्ययस्यासर्वविभक्तितद्धितत्वादव्ययत्वम् अन्यप्रकारार्थे यथा-
6
 
यद् अभावि न तद् भावि, भावि चेन तद् अन्यथा ।' (हितोपदेशे)
इति । मिथ्या रूपार्थेऽस्य वृत्तिरिति मेदिनीकोशविमर्शनाज्ज्ञायते । तदा-
नीम् – 'अन्यथाख्याति:' इत्युदाहरणम् । अत्र यद्रूपेण ज्ञानं प्रत्येयम्,
तद्भिन्नरूपेण –– मिथ्यारूपेण आख्यानात् मिथ्यार्थकत्वम् । 'अन्यथानुप-
पत्ति: ' इत्यादिषु अभावार्थकत्वमप्यस्य दृश्यते । 'अमात्याः प्राइविवाको वा
यत् कुथु: कार्यमन्यथा।' इत्यादिषु अन्यथा इत्यस्य अन्यायेन,
शास्त्र विरोधेन, अयथायथम्' इत्यादयोऽप्यर्थाः प्रतीयन्ते । एतत्सर्व प्रकर-
णानुरोधेनोह्यम् । अत एव 'अन्यथा = दुष्टम् ।' इति शब्दरत्नावल्या-
मर्थनिर्देश: कृत इति शब्दकल्पद्रुमोक्तमपि समञ्जसमिति ज्ञेयम् ।
 
(73)
 
6
 
35
 
'
 
अन्यथाकारम् " (कृ.)
 
अन्यथा' इत्यस्मिन् उपपदे, 'अन्यथैवंकथमित्थंसु सिद्धाप्रयो-
गश्चेत्' (3-4-27) इत्यनेन कृञ णमुलि, 'कृन्मेजन्त:' (1-1-39)
इत्यनेनाव्ययसंज्ञायां रूपमेवम् । 'अन्यथा' इत्यस्य यावानर्थः तावानेव
'अन्यथाकारम्' इत्यस्याव्यर्थः । तदुक्तम् –' सिद्धाप्रयोगश्चेत्' इति ।
व्यर्थयात् प्रयोगानर्हश्चेत् इति तस्यार्थ: । 'अन्यथाकारं भुक इत्यु-
दाहरणम् । अन्यथा भुङक्त इत्यर्थः ।
 
"