2023-07-15 11:44:48 by ambuda-bot

This page has not been fully proofread.

अन्तितः
 
(64)
 
"अन्तर्गिरम्" (अन्य )
 
'गिरेमध्ये' इत्यर्थः । अत्र विभक्यर्थेऽव्ययीभावसमासे 'गिरेश्व
सेनकस्य ' (5-4-112) इति समासान्ते टच्प्रत्यये, टिलोपे 'नाव्ययीभावा-
दतोऽम् त्वपञ्चम्या:' (2-1-83) इत्यमि 'अव्ययीभावश्च' ( 1-1 - 41 )
इत्यव्ययसंज्ञायाम्, 'अव्ययादापसुप:' (2-1-82) इति सुटुकच रूपमे-
वम्। 'अध्यास्तेऽन्तर्गिरं यस्मात् कस्तनावैति कारणम्' (भ. का. 5-87 )।
 
32
 
(65)
 
अन्तर्जठरम्" (अव्य.)
 
जठरस्य मध्यम्' इत्यर्थे अव्ययीभावसमासः । तेनास्याव्ययत्वम्,
एवमेव अन्तर्जानु, अन्तर्दशाहम्, अन्तर्नगरम्, 'अन्तर्वणम, इत्यादि-
प्वपि अव्ययीभावसमासेनाव्ययत्वं बोध्यम् । एतच्च वाचस्पत्ये स्पष्टम् ।
शब्दकल्पद्रुमादिपु 'अन्तर्जठरम्' इत्यादयश्शब्दाः नपुंसकलिङ्गत्वेन
प्रदर्शिताः । तदानीं तेषां शब्दानां क्रियाविशेषणत्वमिति ज्ञेयम् ।
 
6
 
(66)
 
"अन्तितः सामीप्ये' (त.)
 
अन्तिकशब्दात् आयादि (वा. 5-4-44) पाठात् सप्तम्यर्थे तसि-
प्रत्यये पृषोदरादित्वेन ( 6-3-109) ककारलोपे, 'तद्धितश्चासर्वविभक्तिः'
(1-1-38) इति अव्ययसंज्ञा । अन्तिशब्दाद्वा तसिल्प्रत्यये रूपमेवम् ।
'— बलिमग्ने ! अन्तित ओत दूरात् ।, (ऋ. 5-1-10)।
 
1.
 
अन्तर्वणम्' इत्यत 'प्रनिरन्तः शरेक्षु –' (8-4-5) इत्यादिना
वनशब्दस्थन कारस्य निमित्तिनो भिन्नपदत्वेऽपि पूर्वपदस्थात् निमित्तात्
 
णत्वम् ।