2023-07-15 11:44:48 by ambuda-bot

This page has not been fully proofread.

अन्तरेण
 
(61)
 
" अन्तरा मध्यविनार्थयोः " (व.)
' निकटेऽपि ' इति मेदिनीवाचस्पत्यादयः ।
 
मध्ये- 'वैदेहीमन्तरा' कद्ध: क्षणमूचे विनिःश्वसन् ॥' (भ. का.
8-94 ) । विनार्थे- 'त्यामन्तरा तामरसायताक्षि !' (ग. र. म.उ.) ।
 
(62)
 
"अन्तरे मध्ये " (ख. च.)
 
31
 
सप्तमी विभक्तिप्रतिरूपकमव्ययमिदम् ।
 
'आवयोरन्तरे जाता: पर्वताः सरितो द्रुमाः ।' (ग. र. म. उ.)
 
(63)
 
अन्तरेण मध्यविनार्थयो: " (चादिः)
 
—बजने' इति निपाताव्ययोपसर्गवृत्तिः । वर्जनम् विनार्थ एव ।
मध्ये–'मृणालसूत्रान्तरम्' अन्तरेण स्थितश्रलच्चामरयोर्द्वयं सः "
(शिशुपालवधे– 3-3)
 
विनाथ –'अन्तरेणाञ्जलिं बध्दवा लक्ष्मणस्य प्रसादनात् ॥
( रामायणे किष्कि 32-17)
 
1.
 
अल अन्तराशब्दो मध्यम् आधेयप्रधानमाचष्टे ।' अन्तराऽन्तरेण युक्ते '
(2-3-4) इति 'वैदेहीम्' इत्यस द्वितीया । षष्ठ्यपवादः । 'अन्तरा
त्वां मां च कमण्डलुः' इत्यस तु मध्यार्थकत्वं स्पष्टम् । निकटार्थे
त्वस्याव्ययस्य प्रयोगो मृग्यः ।
 
2.
 
' अन्तराऽन्तरेण युक्ते' (2-3-4) इति द्वितीयाऽल । उत्तरत्रोदाहरणे
'अञ्जलिम्' इत्यत्रापि अनेनैव सूत्रेण द्वितीया ज्ञेया । ' अन्तरेण
मातापित्रोः - ' इत्यादिषु प्रयोगेषु अन्तरशब्दो नाध्ययमिति न तल
द्वितीया । स्पष्टमिदं प्रकृतस्थले गणरत्नमहोदधौ ।