2023-07-15 11:44:48 by ambuda-bot

This page has not been fully proofread.

(57)
"अनेव अनवधारणे" (स्व.)
 
अन्ततः
 
'एवानेवाब सा गरत्' (अथर्व. 16-7-4) इत्यत्र अनेव इत्युपादानात्
अनवधारणार्थेऽस्याव्ययत्वमिति ज्ञायते । न + एव = अनेव । एक्कारेण
नञ्समासे नञो लोपे 'तस्मान्नुइ द्विहल:' (7-4-71) इति नुड़ागमे च
रूपनिष्पत्तिरस्येति ज्ञेयम् । एतादृशानामव्ययानां स्वरादिषु च दिषु वा पाठ
उन्नेयः ।
 
66
 
=
 
(58)
 
अनो अभावार्थे " (स्व.)
 
29
 
-"
 
'अभावे नानो नापि -' इत्यमरकोशे अभावार्थे 'अनो' इत्युपादा-
नादव्ययत्वम् तस्य च स्वरादिषु पाठ इति अमरव्याख्यायां नीलकण्ठ-
प्रभृतिभिरुपात्तत्वात् केचिद् वदन्ति । "अन्ये तु 'अ' इति, 'नो' इति
च च्छिया नामद्वयमित्याहुः ।" इति वाचस्पत्योक्तमेव साध्विति प्रतिभाति,
'अ निषेधे, पुमान् विष्णौ' इत्यादिकोशान्तरवाक्यसामञ्जस्यात् ।
 
(59)
 
अन्ततः " (त.)
 
अन्तेन, अन्तात्, अन्ते इत्यन्ततः । आद्यादित्वात् (षा. 5-4-44)
सार्वविभक्तिकस्तसिप्रत्ययः। अस्य च तृतीयार्थे- 'वैश्योऽद्भिः प्राशिताभिस्तु
शूद्रः स्पृष्टाभिरन्ततः ॥ इति मनुस्मृतौ (2-62) प्रयोगो द्रष्टव्यः । अत्र
अन्ततः = अन्तेन इत्यथः । 'सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः । '
( मनुस्मृति: 3-86) इत्यत्र अन्ततः अन्ते इति सप्तम्यर्थे तसिः । सम्भाव-
नायाम् अन्ततः शतं दास्यति ।
 
66
 
"अन्ततः
 
सम्भावना, अवयवः, पञ्चम्यर्थम्, शासनम् इति
 
विश्व: ।" इति शब्दकल्पद्रु मोक्तमपीहावधेयम् । एष्वर्येषु प्रयोगो ऽस्योनेयो
 
यथासम्भवम् !