2023-07-15 11:44:46 by ambuda-bot

This page has not been fully proofread.

अध्य
 
(42)
 
"अध्यक्षरम्" (अन्य.)
 
अक्षरे (अक्षरमधिकृत्य) इत्यर्थे अध्यक्षरम् इति विभक्त्यर्थे अव्ययी-
भावसमासः । तेनाव्ययत्वम् ।
 
(43)
 
"अध्यमि" (अन्य )
 
अग्नौ इति अग्निसमीपे इति वायें यथासम्भव विभक्त्यर्थे, सामीप्ये
वा 'अव्ययं विभक्तिसमीप - (2-1-6) इत्यादिना अव्ययीभावसमासेऽत्र्य-
यन्त्रम ।
 
21
 
(44)
"अध्यात्मम्" (अन्य )
 
अस्य
 
आमनि इत्यध्यात्मम् 'अनन' ( 5-4-108) इति समासान्तष्टच् ।
विभक्त्यर्थेऽव्ययीभावसमागः, तेनाव्ययत्वम् । अनुशतिकादिषु ( 7-3-20)
एवं पाटा आध्यात्मिकम् इत्यत्रोभयपदवृद्धिः ।
 
66
 
(45)
अध्यं " (कृ.)
 
एतत्प्रत्ययान्तस्त्राव्ययसंज्ञा, ' कृन्मेजन्तः' (1-1-39) इत्यनेन
व्ययत्वम् । प्रायो वैदिकेष्वेव ग्रन्थेषु
'ता विग्रं घेथे जठरं 'पृणध्यै-
विधीयते । अस्य एजन्तप्रत्ययवाद
एतदन्तस्व प्रयोगो भवति । तद्यथा-
1.
 
अत्र,
 
• तुमर्थे सेंसेन से सेन्सेक सेन्अध्यै अध्यैन् –' ( 3-4-9)
इत्यादिना अध्ये प्रत्ययः पृणधातोरिति सायणभाध्ये प्रकृतस्थले प्रतिपा-
द्वितम् । तस च्छान्दसत्वात् गुणो नेति ज्ञेयम् । अन्यथा पर्णध्यै इति
स्यात् । वस्तुतस्तु 'पू पालनपुरणयोः' इति क्रैयादिकस्य धातो:
शध्ये प्रत्यये शिस्चेन 'कथादिभ्यः - ' (3-1-81) इति विकरणप्रत्यये
'भा' इत्यस्मिन् सति, धातोरस्य वादित्वेन, 'प्वादीनां ह्रस्वः' (7-3-80)
इति शिति परतो हम्चे, 'श्राइभ्यम्तयोरात: ' (6-4-112) इत्याका-
रलोपेणध्ये इति रूपमत्रेति केचित् ।
 
.