2023-07-15 11:44:46 by ambuda-bot

This page has not been fully proofread.

20
 
अधोनाभम्
 
(40)
 
"अधुना अस्मिन् काले इत्यर्थ " (न.)
 
अस्मिन् काले इत्यर्थे, इदंशब्दात् कालवाचिन: सतम्यन्तात् खा
अधुनाप्रत्यये, प्रकृतेः (इदंशब्दस्य) लोपे च रूपमेन्। अस्य चासर्वविभक्ति-
तद्धितान्तत्वादव्ययत्वम् । स्पष्टमिदम् 'अधुना' (5-3-17 ) इत्यत्र भाष्ये ।
काशिकाप्रभृतिषु वृत्तिग्रन्थेषु इदंशब्दस्य अश्मात्रे, धुनाप्रत्यये च अधुना
इति रूपं साध्यते । सिद्धान्तकौमुद्यां तु इदंशब्दस्य इश्भावे अधुनाप्रत्यये,
'यस्येति च' (6-4-148) इत्यनेन प्रकृतेर देशभूतस्येकारस्य लोपे च रूपमेव-
मन्यथैव साध्यते ।
 
(41)
 
"अधोनाभम" (तिएद्गु.)
 
नाभेरवः इत्यर्थे अधोनाभम् इति भवति । अल 'तिष्ठद्गुप्रभृतीनि
च' (2-1-17) इति गणे पाठात् अव्ययीभावसमासान्तत्वम् । ततश्चात्र्ययत्वम् ।
अत्र गणे (2-1-17) पाठादेव समासान्तोऽकारोऽत्रेत्यपि ज्ञेयम् । सिद्धान्त-
कौमुद्यादिषु तिष्ठद्गुगणपठितानां शब्दानां कालविशेषवाचकत्वमभ्युपगतम् ।
गणरत्नमहोदधिकारेण तु "अन्ये तु देशवृत्तित्वमपि मन्यन्ते ।" इत्यभ्युपगग्य
देशवाचकत्वमङ्गीकृतम् । अत्रास्याव्ययस्य देशवाचकत्वमेव न्याय्यम् । ततश्च
तिष्ठद्गुगणपठितानां यथासम्भवं कालवाचकत्वम्, देशवाचकत्वं चेति प्रयो-
गादुन्नेयम्। 'अधोनाभं प्रहृतवान् –' इति प्रयोगः ग. र. म. उपात्तः ।
शब्दशक्तिस्वाभाव्यात् – यत्र मल्लयुद्धादिप्रकरणे न्यायमार्ग व्यतीत्य अधो-
नाभं विजिगीषुणा प्रहारः क्रियते, तत्रैव हीनकृत्यत्व योतनाया न्ययस्यास्य प्रयोग
 
-
 

 
इति वृद्धाः ।