2023-07-15 11:44:45 by ambuda-bot

This page has not been fully proofread.

अधिलोकम्
 
(37)
 
"अधिगवम् गवि इत्यर्थे " (अन्य )
 
"
 
(2-1-6)
 
गवि इत्यधिगवम् । विभक्त्यर्थे 'अव्ययं विभक्ति —
इत्यादिना अव्ययीभावसमासः । समासान्तोऽप्रत्ययोऽत्रेत्यपि ज्ञेयम् । वाचस्पत्ये
उपात्तमिदम् । वेदे एवैवम् । लोके तु 'अधिगु इत्येव स्यात् । अन
' अध्ययीभावच ' (1-1-41 ) इत्यनेनाव्ययीभावसमासान्तस्याव्ययत्वमिति
ज्ञेयम् ।
 
(38)
 
अधिभूतम् " (अव्य.)
 
भूतेषु इत्यधिभूतम् । अत्रापि विभक्त्यर्थेऽव्ययीभावसमासः । 'अव्य-
यीभावश्च' (1-1.41) इत्यनेनास्याव्ययत्वम् । एवमेवान्यीभावसमासस्थलेषु
अव्ययसंज्ञा ज्ञेया। आधिभौतिकः ।
 
19
 
(39)
 
अधिलोकम् " (अन्य )
 
लोकेषु इत्यधिलोकम् । पूर्ववदत्रापि विभक्त्यर्थेऽव्ययीभावसमासः,
अव्ययत्वं च । एवम्, अधिहरि अधिदेवम् इत्यादिष्वप्यव्ययी भावसमासेना-
व्ययत्वं ज्ञेयम् ।
 
66
 
1. 'गोस्त्रियोरुपसर्जनस्य' (1-2-48) इत्युपसर्जनीभूतस्य गोशब्दस्य
सामासिको ह्रस्व: । स च, 'एच इग्घस्वादेशे' (1-1-48) इति
वचनात् अत्र उकाररूप इति ज्ञेयम् ।
 
2. अधिभूतं भव: आधिभौतिकः । अत्र,
 
'अनुशतिकादीनां च
(7-3-20) इत्यनेनोभयपदवृद्धिः । आधिभौतिकः = तापविशेषः ।
 
6