2023-07-15 11:44:45 by ambuda-bot

This page has not been fully proofread.

12
 
अयो
 
नियमेन प्रयोगे पक्षान्तर एव वृत्तिः । पूर्वोक्तदिशाऽस्य निपातसमुदायस्यापि
पक्षान्तरद्योतकत्वम् इत्यादिकं यथायथमूह्यम् । अथवापि इत्यपि निपात-
समुदाय: पक्षान्तरार्थकश्चादिषु (1-4-57) द्रष्टव्यः ।
 
(23)
 
"अथो प्रकृत्यधिक्रिया स्थापनान्वादेशेषु" (च) [अ]
'अथाथो संशये स्याताम् अधिकारे च मङ्गले ।
विकल्पानन्तरप्रश्नकार्ल्यारम्भसमुच्चये ॥" इति मेदिनी ।
 
प्रकृतौ – "अथो अन्नेनैव जीवन्ति" (तै. आ. 8-2-1 )
 
-
 
'अधिक्रियायाम् – 'अथो परोक्ष कुर्यात् ॥
 
स्थापने– 'अथो वर्णानां संस्कारः । अन्वादेशे— इमं वेदमध्यापय ।
अथो एनं शिक्षामध्यापय । समुच्चये— 'स्त्रियो रत्नान्यथो विद्या धर्मः
शौचं सुभाषितम्। विविधानि च शिल्पानि समादेयानि सर्वतः ॥ (मनुस्मृति:
 
2-240) I
 
मङ्गले -- 'अथो अरिष्टतातिभिः । (ऋ. वे 10-167-4) ।
विकल्पे – 'नदीषु स्नायात, अथो देव वातेषु । अनन्तरे अथो
सर्व श्वापदं मक्षिका तृप्यतु क्रिमि: ।' (अथर्व 11-9-10 )। प्रश्ने --
अथो कथितं नु ? । कार्ये– "अथो वनस्पतीनाम् ।" (अथर्व 145) ।
 
[अ] अस्याव्ययस्य वैदिकप्रयोग एवोपलभ्यते । कुत्रचिदेवार्येषु लौकिक-
प्रयोग: पूर्वै: निदर्शनतया प्रदर्शितः । तथापि, अमरदण्डनाथमेदि-
नीकारप्रभृतिभिः लौकिकाव्ययेषु परिगणनादस्मामिश्च लौकिकवैदिको-
भयविधाव्ययानामपि सङ्कलनादखोपात्तोऽयम् । एवमेव उत्तरतापि
केवलवैदिकाव्ययेषु गतिरित्यपि ज्ञेयम् ।
 
1. तिलकस्तु 'अथो खल्वाहुः ।' इत्यादिषु समुच्चयेऽपि अधिक्रियायाः
सत्वमङ्गीकृत्य समुच्चयाधिक्रिय योरैकार्थ्यमाह। अस्माभिस्तु -
आरम्भानन्तर्ययोरिव ईषद्भेदमपि भेदकत्वेनाभ्युपगम्य द्वयोः पृथक्
प्रयोग: प्रदर्शितः ।