2023-07-15 11:44:44 by ambuda-bot

This page has not been fully proofread.

10
 
अथ
 
मङ्गले– "अथ शब्दानुशासनम् " (महाभाष्ये प्रारम्भे)
आनन्तर्ये – "अथ प्रजानामधिपः प्रभाते—" ( रघुवंशे 2-1 )
आरम्भे– "अथातो धर्मं व्याख्यास्याम:" (आप. धर्मसूत्रे 1.1.1)
 
प्रश्ने – "अथ शक्नोषि भोक्तुम् ?", "अथ धावसि पर्वते ? "
 
1
 
कास्यै–अथ परस्मैपदम् । (परस्मैपदानि कार्येन प्रतिपाद्यन्ते
इत्यर्थः ।)
 
अधिकारे —' अथ योगानुशासनम्' (यो. सू. 1-1 ) ।
प्रतिज्ञायाम् -- गौडो भवान् अथेति नमः । (भवान् गौड़ इति
सप्रतिज्ञ ब्रूम इत्यर्थः ।)
 
समुच्चये—'दुर्योधनोऽथ राधेय:' (महाभारते)
 
त्रितर्फे – शब्दो नित्यः, अथानित्यः । संशयोऽपि वितर्कविशेष
 
1. 'शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्' इति महाभाष्ये
'अथ' इत्यस्व अधिकारार्थस्थेन व्याख्यानेऽपि मङ्गलार्थकत्वेनाथशब्द-
स्यादौ प्रयोग इति बहुषु ग्रन्थेषु प्रतिपादनात् मङ्गलार्थकत्वमप्यत्रा-
स्पाथशब्दस्येति शेषम् ।
 
"
 
मङ्गलं तु नास्याव्ययस्य साक्षाद् वाच्यार्थ: ; किं तु श्रुत्या मङ्गल.
साधनं भवति । ओङ्कारश्वाथशब्दश्श्र द्वावेतौ ब्रह्मणः पुरा । कण्ठं
भिस्वा विनिर्यातो तेन माङ्गलिकावुभौ ॥" इत्युक्तेः 'अर्थान्तरप्रयुक्त
एव हाथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति । इति शाङ्करबह्मसूल-
भाष्ये (1-1-1) प्रतिपादितत्वाञ्च । तेन मङ्गलबाचकस्य सत्रार्थत्वे.
ऽपि स्वरादिपाठादव्ययश्वं सिद्ध्यति ।
 
19
 
'उदस्य कुम्भीरथ शात कुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे ।
यथा कुला चारमथावनीन्द्रजां पुरन्धिवर्गः स्त्रपयांम्बभूव ताम् ॥"
इति नैषधश्लोके
"अथस्नपयाम्बभूव मङ्गलम्नपनं चकारेत्यर्थः ।
इति मनोरमायां व्याख्यातम् । चादित्वादस्य निपातत्वमपि ।
तेन निपातस्तु स्वरूपेणैव मङ्गलम् मृदङ्गध्वनिवत् इत्यादिकमत्र
 
यथाबथमूहह्यम् ।
 
"
 
;