2023-07-15 11:44:44 by ambuda-bot

This page has not been fully proofread.

8
 
भल्यूमशा
 
अनुज्ञाने—अतिसृजति । अन्तर्भात्रे-अतिगच्छति नृपम् ।
भूते_अतीतः ।
 
भृशाधिकाबुध्यर्थेष्वपि दृश्यते । तद्यथा- भृशे–अतीव । अतिवृद्धः ।
अधिके–'अति सर्वत्र वर्जयेत् ।" अबुद्धौ–अतिगहनम् (बुद्धेर विषय
इत्यर्थ:) । पूजायाम– 'अति स्तुतम्, अति सिक्तमेव भवता । अतिक्रमणे
'सर्वान 'गुणान् एप गुणोऽति भाति ।" 'अतिष्टाः ।
 
(14)
 
"अतीव अतिशये" (स्वरादि:- नि.)
'' अतीव सुकुमाराङ्गी'
 
2.
 
(15)
 
"अत्यूमशा हिंसायाम् " (ऊर्यादिः, नि.)
 
1.
 
6
 
' अतिरतिक्रमणे च ' (1-4-95) इति सूत्रे चकारेण पूर्वसूत्रे
(1-4-94) - पूजायाम्' इत्युक्तस्यात्रापि सम्बन्धः । तेन
पूजायें कर्मप्रवचनीयसंज्ञा । कर्मप्रवचनीयसंझया उपसर्गसंज्ञाया
बाधितत्वात् अतिस्तुतम् इत्यत्र षत्वं न ।
 
'अतिरतिक्रमणे च ' (1-4-95) इति
 
कर्मप्रवचनीयसंज्ञा ।
 
अतिक्रमणम् = निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिः । 'कर्मप्रवचनीययुक्ते
द्वितीया (2-3-8) इति 'सर्वान् गुणान्' इत्यत्र द्वितीया ।
 
3. अतिक्रम्य सर्वान् तिष्टतीति अतिष्ठाः । अतिपूर्वकस्य स्थाधातोः विपि रूप-
मेवम् । 'अस्यादयः क्रान्ताद्यर्थे द्वितीयया (वा. 2-2-18) इति
समासः । अतिष्ठा : = सर्वातीतः । 'बृहत्पाण्डरवासा अतिष्ठा:...एवमु
पास्तेऽतिष्ठाः......' इति बृहदारण्यकोपनिषदि (2-1-2) प्रयोगः ।
'उपसर्गात सुनोतिसुवतिस्पतिस्ती तिस्तोभतिस्था-' (8-3-65)
इति षत्वम् ।
 
4. 'अति + इव' इति निपातद्वयसमुदायोऽयम्। स्वरादिषु (1-1-37 )
निपातसमुदायस्यास्य पाठात् समुदितस्यैवाव्ययस्वम् । प्रादिसमासः ।
 
6
 
"