2023-07-15 11:45:51 by ambuda-bot

This page has not been fully proofread.

389
 
स्पष्टम् । तदनुरोधेनाव पठितोऽयम् । प्रतिषेधविषादावस्यार्थी । 'अलम्' इति
केचित उदाहरणं मूग्यम् ।
 
(873)
 
"हला " (नि.)
 
नाट्योक्तौ सख्याह्वाने निपातोऽयम् । टाबन्तोऽयमिति केचित् ।
अन्युत्पन्नमव्ययमेवेति सर्वसम्मतम् ।
 
(874)
 
"हवा " (च.)
 
'ह + बा' इति निपातय समुदायोऽयं प्रसिद्धयर्थ कश्छन्दसः,
'हवें' इत्यस्य समानार्थकः ।
 
;
 
(875)
 
" हस्ते " (ग.)
 
उपयमनायें (= स्वीकरणे)ऽस्य गतिमंज्ञा कृञ् योगे 'नित्यं हस्तेषा-
णाबुपयमने (1-4-77) इति विहिता । तेन समासे ल्यपि 'हस्तेकृत्य
त्वमा श्वसी: ' (भट्टि - 5-16) इति सिद्धम् । अत्र 'हस्ते' इति निपातनात्
सप्तम्या अलुक इति न्यासकारः । सप्तम्यन्तप्रतिरूपकमव्ययमिति हग्दसः ।
अर्थेऽपि मतिभेदः । यथा सूत्रे (1-4-77) उपयमनशब्देन दारकर्मोच्यते
इति काशिका । 'हस्ते कृत्य महास्त्राणि ' इत्यादिषु दरकर्मरूपस्यार्थस्या-
सम्भवात् स्वीकरणमात्र मेवार्थं परे मन्यन्ते । 'उपयमन नाम अपरित्यागलक्षणं