2023-07-15 11:45:52 by ambuda-bot

This page has not been fully proofread.

386
 
शोभार्थकत्वमप्यस्य वेद इत्याहुः । 'अद्रेः शृङ्गं हरति पवन: किंखिदित्युन्मु-
स्त्रीभिः–' (मेघदूते – 1.14) इत्यादिषु पदपूरणार्थकत्वम् । पादपूरणार्यकत्व
 
-
 
च वदन्ति ।
 
(866)
 
66
 
"" (.)
 
क्षेपागमादेशनिन्दापादपूरणसम्बोधनादिषु प्रसिद्धोऽयम् । क्षेपः कुन्सा :
तन यथा – स्वयं ह ओदनं भुङ्क्ते, गुरुन् सक्तून् पाययति । आगमे--
इति ह स्माहुः । आदेशे—त्वं ह ग्रामं गच्छ। निन्दायाम् –त्व ह ब्राह्मणः ।
किं त्वमपि ब्राह्मण इत्यर्थः । पादपूरणे– 'पम्पातीरे हनुमता सङ्गतो वानरेण
इ' (रामा. 1-1.58) सम्बोधने – ह एहि ।
 
बै
 
प्रसिद्धयर्थकत्वमस्य प्रौढमनोरमायां प्रोक्तम् । यथा - प्रतर्दनो इ
दैवोदासिः' (कौषीतक्युपनिषत् 1-1 )।
 
'गावो ह जज्ञिरे तस्मात्' (तै.आ. 3-12-5) इत्यत्र समुच्चयार्थकत्वम्
'ते ह नाकं महिमानः सचन्ते' (तै. आ. 3-12-7) इत्यत्र स्तोभार्थकध्वम्,
'वैदेही नु कथं भविष्यति ह हा हा देवि धीरा भव' (शृङ्गारप्रकाशे सप्तमप्र-
काश उपात्तः श्लोकः) इत्यत्न विषादार्थकत्वम्, 'अयं ह करिष्यति' इत्यादिषु
विस्मयार्थकत्वमित्यादिकं यथासम्भवमूहाम् । शोभार्थकोऽपि वेदेषु बहुलं
प्रयुज्यते । प्रतिमानाटके (5-19/20) 'हहह अहो पतिव्रतायास्तेजः' इत्यत्न
अस्यैव निपातस्य समुदाय: सरोषे कष्टे वर्तते । नाटकेषु सन्दर्भानुसारेण
काकादिपूर्वकं यथाभिलषितार्थकत्वमस्येति बोध्यम् ।