2023-07-15 11:44:43 by ambuda-bot

This page has not been fully proofread.

1.
 
भअसा
 
(7)
 
"अङ्ग पूजासम्बोधनयोः" (च)
 
'– समृद्ध धुपयोगप्रातिलोम्येषु ।' इति शाकटायनः ।
'पुनरर्थेऽङ्ग–' इत्यमरः ।
 
'अङ्ग सम्बोधने हर्षे सङ्गमासूययोरपि ।" इति मेदिनी ।
 
[भ]
 
1-39
 
पूजायाम – अङ्ग विद्वन् ! माणवकमध्यापय ।
सम्बोधने – 'अङ्गावेक्षख सौमित्रे कस्येमां मन्यसे चमूम् ।'
 
(रामा. अयो. 96-15)
 
(8)
 
"अजस्रं सातत्ये" (ख)
''अजस्रमास्फालितबल्लकीगुण' इति माघः (1.9 ) ।
 
(9)
 
"अञ्जसा तत्त्वशीघ्रार्थयोः" (ख) [अ]
'प्रकृतार्थेऽपि' इति शब्दकल्पद्रुमे ।
तत्त्वे - वक्त्यञ्जसा मुनिः ।
 
शीघ्रार्थे– 'सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव ।"
 
'
 
'नमिकम्पिस्म्यजसकम हिंसदीपो र: (3-2-167) इत्यनेन नपूर्ण.
कात् 'जसु मोक्षणे' (दिवादि:- पर. सेट्.सक.) इति धातो: ताच्छीलिके
स्प्रत्यये, स्वरादिपाठादव्ययत्वं क्रियासातव्ये । अन्यत पुलिङ्गः, नपुंसक
लिङ्गश्च । तद्यथा- 'आधानाद् द्वादशराबमजस्रा:' (3-2-167 पद-
मअर्युपासं वाययम्) 'अजस्त्रदीक्षाप्रयतस्य मद्गुरो:-' (रघुवंशे :)
इति ।
 
' आसमाप्त: शरीरस्य यस्तु शुश्रूषते गुरुम् ।
 
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥
 
इति मनुस्मृतौ (2-244) निश्चितार्थेऽपि 'अअसा' इति प्रयुक्त मियाप
ज्ञेयम् ।