2023-07-15 11:45:46 by ambuda-bot

This page has not been fully proofread.

352
 
(777)
 
सजू: " (ऊ.)
 
सहार्थे वर्ततेऽयम् । 'अय श्रवणयोः संगो द्विजिह्वः सजूः' इत्यत्र
सजूः इति गतिप्रतिरूपको निपातः- इति तिलकः । 'सजूरिन्द्रेण पश्चाशत्
देवास्ते मरुतोऽभवन् । ऊर्यादित्वात् कृञो योगे समासे सकृत्य,
इत्यपि भवति । 'खेलायन् अनिशं नापि सजूःकृत्य रति वसेत् ॥' इति
भट्टिः (5-72)। सहपूर्वकात् जुषवातोः किपि सहस्य सादेशे 'ससजुपो रु : '
(8-2-66) इति रुत्वे 'वरुपधाया दीर्घ इक: ' (8-2-76) इति दीर्घे
च सम्पद्यते । तस्य च ऊर्यादिषु पाठाद् गतिसंज्ञेति पक्ष एकः । अव्युत्पन्नं
प्रातिपदिकमेवैतदिति पक्षान्तरम् । उभयथाऽपि 'सजूः' इति दीर्घपाठ एव
प्रामाणिक: ; नतु वाचस्पत्याबुपात्तदिशा 'सजुः' इति हस्वपाठ
 
इत्यवधेयम् ।
 
(778)
 
" सजोषम् " (व.)
 
'सन्तोषेण ' इत्यर्थे छान्दसोऽयम् । 'अस्मे यातं नासत्या सजोषः '
 
(ऋक्. 1-118-11)।
 
(779)
 
इत्यर्थे प्रसिद्ध एव ।
 
सज्जः (नि.)
 
"
 
6
 
सज्जः सहार्थे—' इति विकाण्डशेषः । विशेष्यनिघ्नोऽपि सन्नद्ध