2023-07-15 11:45:45 by ambuda-bot

This page has not been fully proofread.

348
 
(765)
 
शुदि" (च.)
 
शुक्लपक्षार्थकोऽयम् । 'सुदि' इत्यस्य विकृतप्रयोग इति केचित् ।
उत्तरदेशेऽतीव व्यवह्रियमाणोऽयम् ।
 
(766)
 
शुनम्" (वै.)
 
'सुखेन' इत्यर्थे छान्दसोऽयम् । 'शुनं हुवेम मघवानमिन्द्रम् – '
 
(ऋकू 3-48-5)1
 
(767)
 
शुभम् '" (च)
 
'शुभ मिल्यव्यय शुभपर्यायः - इति काशिका (5-2-140)।
'दैवात्' इत्यर्थकत्वम् – 'शुभं दिष्ट्या' इति त्रिकाण्डशेष उक्तम् । 'शुभंयुः ।
शुभंयाः । शुभङ्करः ।
 
66
 
(768)
 
शूला " (डा.)
 
पाकविषये शूलशब्दात् 'शूलात् पाके' (5-4-65 ) इति डान्प्रत्यये
गतिसंज्ञा दिकम् । शूलाकरोति मांसम् । शूले पचतीत्यर्थः ।
 
66
 
1. 'अहं शुभमोर्युस्' (5-2-148) इति मन्त्रयें युस्प्रत्ययः । यु:-
कल्याणवान् ।