2023-07-15 11:45:44 by ambuda-bot

This page has not been fully proofread.

शश्वत्" (च.)
 
सर्वकालसातत्यनित्यसहार्थ – प्रत्येकादिषु वर्तते ।
 
-
 
सू
 
(756)
 
सर्वकाले -
 
-
 
शश्वत् चकार । सातत्ये – 'शश्वत् वक्ति कुशिक्षितः' । नित्ये -- शाश्वतं
वैरम् । सहार्थे– ' शश्वद् भुञ्जाने चैत्रमैत्रौ । प्रत्येकार्थे – 'शश्वद् विश
सवितुर्दैव्यस्य —' (ऋक्. 1-35-5 ) । 'शश्वत्तमं तदपा वह्निरस्थात् '
(ऋक्. 2-38-1) इत्यत्र तमबन्तोऽप्यसकृदित्यर्थे प्रयुक्तः । शाश्वतिकः ।
 
6
 
' येषां च विरोधः शाश्वतिक: ' ( 2-4-9) इति सौत्र प्रयोगात् तकारान्त-

 
लक्षण कप्रत्ययं बाधित्वा ' ठस्येक: ' (73-50) इत्यौत्सर्गिक इकप्रत्ययोऽपि ।
एवं ' अव्ययानां भमात्रे—' इति (वा. 6-4-144) इसि टिलोपोऽपि निपात-
नेन नेति ज्ञेयम् । 'शाश्वतः' इति भाष्यादिष्वसकृत् प्रयोगात् 'अबाधका-
न्यपि निपातनानि ' (परिभाषा 120 ) इत्याश्रित्य तदपि रूपं प्रामाणिक
मिति बोध्यम् । ' प्रवाच्यं शश्वथा वीर्य ——' (ऋक् . 3-33-7) इत्यत्र छान्द-
सत्वात् प्रकारवचने थान्प्रत्ययः अन्त्यलोपश्च । शश्वथा – अनेकप्रकारेण,
इत्यर्थः ।
 
"
 
66
 
345
 
(757)
 
शस्
 
(त.)
 
एतदन्तमव्ययसंज्ञकं वेदितव्यम्। बहुशो ददाति, भूरिशो ददाति ।
अल्पशो, स्तोकशो वा ददाति । अत्र 'बह्वल्पार्थात् कारकात शस् अन्यतर-
स्याम् ' ( 5-4-42) इति शस्प्रत्ययः । पक्षे 'बहूनि ददाति' इत्यपि सिद्धमेव ।