2023-07-15 11:45:44 by ambuda-bot

This page has not been fully proofread.

342
 
कृत्य
 
66
 
शकला ," (ऊ.)
 
हिंसार्थकोऽयमूर्यादिः । अपरे तु ' परिभवे इति वदन्ति । शकला-
शङ्के
 
(747)
 
(748)
 
शक्तिविषयेण " ( सु. प्र.)
 
विभक्तिप्रतिरूपकमिदमव्ययमिति 'ब्राह्मे विवाहे बन्धुशीलश्रुतारो-
ग्याणि बुद्ध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेत् शक्तिविषयेण अलङ्कृत्य '
( आपस्तम्बधर्मसूत्रे 2-5-11-17) इत्यत्र "शक्तिविषयेण-विभक्तिप्रतिरूप-
कोऽयं निपातः 'यथाशक्ति' इत्यस्यार्थे द्रष्टव्यः " इति हरदत्तवचनाज्ज्ञायते ।
 
(749)
 
'शङ्के" (ति. प्र.)
 
66
 
..
 
'वितर्के' इत्यर्थे वर्तते। 'शङ्के शशाङ्कोऽयम्'। 'शङ्के तीव्रं भवति समये
शासनं मीनकेतो: ' ( हंससन्देशे 1.3 ) इत्यत्र रसास्वादिन्यां पक्षद्वयमुपक्षि-
तम् – "शङ्के इत्येतत् 'जाने, मन्ये' इतिवत् वाक्योपन्यासेऽव्ययमित्येके ;
बक्ष्यमाणवाक्यार्थकर्मकमाख्यातमेव इत्यन्ये । प्रथमपक्षे 'शङ्के' इत्यस्य 'तथाहि '
इत्यर्थः । " इति । तिङन्तप्रतिरूपकत्वमेव वर्धमानादिवैयाकरणानाम्,
आलङ्कारिकाणां च सम्मतम् ।