2023-07-15 11:45:42 by ambuda-bot

This page has not been fully proofread.

327
 
(713)
 
वाव " (च.)
 
6
 
एव' इत्यर्थे ' वा+व' इति निपातद्वयसमुदायोऽयम् । 'वाबत् '
 
इति केचित् । 'अशरीरं वाव सन्तम् –' (छान्दोग्ये 8 12 1 ) । अनुमान-
प्रतिज्ञा-प्रैष- समाप्तिष्वपि छन्दसि सन्दर्भानुसारेण बहुलं प्रयुज्यतेऽयम् ।
 
(714)
 
बार्दालि " (ऊ.)
"
 
हिंसाप्राकाश्ययोरर्थयोरयमूर्यादिषु पठथते । 'पार्दाली' इति केचित् ।
बार्दालीकृत्य । वार्भिः सलिलैः दलति विशीर्णो भवतीति वार्दलः दुर्दिनम् ।
तथाकृत्वा इत्यर्थे च्चिप्रत्ययेनास्य निष्पन्नत्वमङ्गीकृत्य 'बार्दलीकृत्य इत्येष
"
न्याय्यमित्यभ्युपगच्छन्तः केचिदस्योर्यादिपाठं नानुमन्वते ।
 
(715)
 
"वि " ( उ.ग. क. प्र.)
 
66
 
" वि विशेषेऽत्यये व्याप्तौ परिवर्ते विपर्यये ।
 
निवृत्तिपृथुताव्याजव्याख्यानाश्वासभोजने ॥
विरोधप्रैषपर्यायक्रियाक्रीडनवण्टने ।
रोधोद्वाह क्लेशदूरशौर्योद्योगनिशामने ॥
 
दानेऽन्यथात्वे नानात्वे नाशाश्चर्योक्तिमिश्रणे ।