2023-07-15 11:45:41 by ambuda-bot

This page has not been fully proofread.

326
 
वारंवारम्
 
(709)
 
वाट्" (च.)
 
हविर्दाने वर्ततेऽयम् । भोजराजमतेनास्य चादित्वमिति ज्ञेयम् ।
 
6
 
वाट् ताभ्यः खाहा' । तिलकादयस्तु 'बट्' इति पठन्ति । परे तु
'बाटू' इति ओष्ठयादिं पठन्ति ।
 
(710)
 
वात्" (च.)
 
बत् ' इत्यस्यायें छान्दसोऽयम् । सादृश्यार्थकत्वमिति यावत् ।
 
(711)
 
"वाम्" (च.)
 
युष्मदर्थ प्रतिरूपकमव्ययमिदम् । तदुक्तम् 'गेये केन बिनीतौ वाम् '
(रघुः 15-69) इत्यत्न मल्लिनाथेन–'वाम् इति युष्मदर्यप्रतिपादकमन्ययं
द्रष्टव्यम्' इति ।
 
66
 
6
 
66
 
(712)
 
"वारंवारम्" (च.)
 
शश्वत्' इत्यर्थे मनोरमादिषु पठितोऽयं चादिषु । विकाण्डशेषे
तु ' वारंवारं शश्वदर्ये वारंवारेण चेष्यते' इति ' वारंवारेण ' इत्यप्येत-
त्समानार्थकः पठितः । —— मनसि विचिन्तय वारंवारम् ॥' (मोहमुद्गरे ) ।
'वारंवारं तिरयति दृशोरुङ्गमं बाप्पपूरः- (मालविकाग्निमिले 1.35 )।