2023-07-15 11:45:41 by ambuda-bot

This page has not been fully proofread.

वा
 
325
 
द्वन्द्वे – 'सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम (कुमार,
2-60 ) । न तृतीयेत्यर्थः ।
 
समुचये – 'वायुर्वा त्वा मनुर्वा त्वा' । (तै. सं. 1-7.7.2)
वायुर्मनुश्चेत्यर्थः ।
 
6
 
अवधारणे – सुयोधनं वा न गुणैरतीताः' (किरात 3-13 ) । ' अशरीरंं
बा व सन्तं न प्रियाप्रिये स्पृशतः । (छा. 8-12-1) अशरीरमेव सन्तमित्यर्थः ।
अनवक्ऌप्तौ–' शस्त्रवेदमधिगम्य तस्वतः कस्य वेह भुजबीर्यशा-
लिन: ' (किरात. 13-62) । को वा चक्षुरुदश्चयेदपि पुरः – ' ।
 

 
वितर्के–' किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः' । 'यद्वा,
यदिवा, अपिबा, अथवा, उतवा, किंबा' इत्यादिषु पक्षान्तरद्योतकानाम-
ध्यत्वैवार्थेऽन्तर्भावः ।
 
पादपूरणे—'देवासुरगणान् वाऽपि सगन्धर्वोरगान् भुवि । (रामा.
बाल. 25.3)।
 
'कदाचिद् भवति, कदाचिन्न भवति' इत्यथें वैयाकरणैरय बहुल
मुपयुज्यते । अर्थोऽयं लोकेऽतीवाप्रसिद्धः । 'दोषो णौ, वा चित्तविरागे'
(6-4-90; 91) 'चित्तं दूषयति, दोषयति वा' इति रूपद्वयसाधनमल
विवक्षितम् ।
 
6 नवा पलायाश्चक्रे विः दयाश्चक्रे न राक्षस: ' (भ. का. 5-106 )
इत्यत्न एवार्थत्वम्, ' युद्ध्वा वा जितमपरेण काममाविष्कुर्वीत स्वगुणमपत्रपः
क एव' (माघे 8-9) इत्यादिषु अप्यर्थकत्वमित्यादयोऽपि यथासम्भव निरुक्ते-
ब्वेवार्येषु अन्तर्भाव्या इत्यलं विस्तरेण ।