avyayakośa /360
This page has not been fully proofread.
324
वा
(706)
"वस्तोः " (ख.)
6
अहनि ' इत्यर्थे वैदिकोऽयम् । 'कुहस्विद् दोषा कुह वस्तोरश्विना '
(ऋक् 10-40-2)। 'वस्तर ' इति केचित् पठन्ति; सोऽपपाठ इति ज्ञेयम् ।
(707)
वहद्गु" (ति.)
वहन्ति गावो यत्न काले स कालो वहद्गु । शरत्काल एवमुच्यते-
इति केचित् । तिष्टद्गुप्रभृतित्वाद व्ययीभावसमासः शनादेशश्च । अव्ययी-
भावत्वेनाव्ययत्वम् ।
-
वहन्त्यो गावो यत्र देशे सा वहद्गुः = हलपङ्क्तिः । वहृद्भवः-
कुटुम्बिनः । अनान्यपदार्थप्रधानत्वाद् बहुव्रीहिसमासः । तेन नाव्ययत्वम् ।
(708)
" वा " (च. स्व.)
विकल्पोपमानद्वन्द्वसमुच्चयावधारणा नवक्लृप्तिवितर्कपादपूरणादिषु वर्तते ।
विकल्पे – 'धर्मार्थी यत्न न स्यातां शुश्रूषा वाऽपि तद्विधा ।' (मनुः
2-112 ) । ' यवैर्वा ब्रीहिभिर्वा यजेत' ।
।
उपमाने — 'आशीविषो वा संक्रुद्रः सूर्यो वाऽत्र विनिर्गतः । भीमोऽ-
तको वा समरे गदापाणिरदृश्यत ॥ ' पुष्पेक्षणैर्लम्भितलोचकैर्वा
6
(माघे 4-35 ) । 'व्योम पश्चिमकला स्थितेन्दु वा — ( रघुवंशे 19-51 ) ।