2023-07-15 11:45:40 by ambuda-bot

This page has not been fully proofread.

320
 
वत्
 
(695)
 
"वटू" (च)
 
प्रशंसार्थकोऽयं भोजराजमतेन चादिषु पठ्यते । इति ग. र. म. (१-५)
बटू पठति । सुष्ठु, पठतीत्यर्थ: । 'बट् ताभ्य: स्वाहा' (तै. संहिता) :न्यादिषु
तु हविर्दानार्थे 'श्रौषट् वौषट् इत्यादिवत् प्रयुक्तोऽयम् ।
 
(696)
 
" वत" (च.)
 
कचित् चादिषु 'बत' इत्यस्य स्थाने पठितोऽयम् । अस्माभिर्चत
इत्यत्र विवृतम्, तत्रैव द्रष्टव्यम् ।
 
(697)
" वत्" (स्व.)
 
वियोगे पादपूरणे च छान्दसोऽयम् ।
 
(698)
 
"वत् " (च.)
 
एतस्प्रत्ययान्तमव्ययसंज्ञकं वेदितव्यम् । चादिषु 'वत्' (ग. सू.
1-4-57 ) इति गणसूत्रं पठितम् । तस्यायमर्थः– पञ्चमाध्याये चतुर्भिः सूत्रै:
गतिप्रत्ययो विधीयते । तेषु ' तेन तुल्यं क्रिया चेत् वति: ' ( 5-1-115),
'तत्र तस्येव' ( 5-1-116), 'तदर्हम्' ( 5-1-117 ) इति सूत्रत्रयविहित-
स्यासस्वार्थकत्वेनाव्ययत्वम् इति । यद्यपि तत्र उपसर्गाच्छन्दसि धात्वर्थे

 

 

 
( 5-1-118) इत्यनेनापि वतिरेव विधीयते; तथापि तत्सूत्रविहितस्य नात्र