2023-07-15 11:45:41 by ambuda-bot

This page has not been fully proofread.

319
 
लोके तु समास एव ल्यप् न्याय्यः । अथ ल्यवाश्रितानि कार्याणि । साढयै ।
प्रशमध्य गतः । प्रापश्य – प्राप्य वा गतः । 'दान्त्यनुपूर्व 'वियूय' ।
'यत्ता यो दक्षिणा परिप्ठ्य' । 'प्रक्षीय ।
 
-
 

 
(694)
 
"व" (च.)
 
सादृश्यार्थकोऽयम् । इवशब्दस्य स्थाने कचित् प्रयुज्यते । 'नारिके-
लासवं योधाः शात्रवं व पपुर्यशः ॥' (रघुः 4-42) । 'मणी बोष्टस्य
लम्बेते प्रियो वसतरी मम) ( महाभारते मङ्किगीतायो १७७-१२) । दम्पतीव,
जम्पतीव, रोदसीव । अयं पादपूरणेऽपीति केचित् ।
 
मन्त्रशास्त्रे बीजाक्षरत्वे त्वस्य मकारानुसंश्लिष्टत्वम् 'वम्' इति । तस्याप्य
व्ययत्वमाद्दुः । तथाहि 'बीजकूटमालामन्त्रः' इति तिल कोऽव्ययकाण्डे पपाठ ।
बीजमन्त्राक्षराणां कूटमन्त्राक्षराणां मालामन्त्राक्षराणां च अव्ययत्वमिति तस्य
वाक्यस्यार्थः : । इयमेत्र गति:
'गं गजाननाय नमः ' 'जं जयत्सेनाय
 
नमः' इत्यादिष्वपि ज्ञेया ।
 
--
 
1,
 
अन्न सहधातोः बस्वा प्रत्यये, छान्द्रसस्वात, 'साढयै साइवा साढेति
निगमे' (6-3-113) इत्यस निपातनाद्वा असमासेऽपि ल्यप् ।
ल्यपो 'ध्ये' इत्यादेशः । 'दुश्वादिषु रूपमेषं सम्पच ते ।
 
2. 'ल्पपि लघुपुत्' (6-4-56) इति स्थबाधिती णेरयादेशः ।
3. 'विभाषाssप:' (6-4-57) इत्योप्ययादेश विकल्पो णेः ।
4. 'युप्लुबोदीर्घश्छन्दसि (6-4-58) इति ल्यवाभितः प्रकृतेः ।
5. व्यपि परत: 'क्षिय:' (6-4-59) इति क्षिधातोः ।