2023-07-15 11:45:39 by ambuda-bot

This page has not been fully proofread.


 
लवणम्
 
(687)
"रोहिष्यै " (कृ.)
 
317
 
रोहणाय इत्यर्थः । रुहतेश्छन्दसि तुमुन्नर्ये इण्यैप्रत्ययः । 'प्रयै रोहिष्यै
 
अव्यथिष्य' (3-4-10) इति निपातनात् साधुः । एजन्तकृत्वात् 'कृन्मेजन्तः'
(1-1-39) इत्यव्ययत्वम् । 'अपामोषधीनां रोहिध्यै—'।
 
(688)
 
लघु " (स्व.)
 
शैघ्रचे वर्ततेऽयम् । क्रियाविशेषणमेतत् । क्लीबान्तत्वमेवास्य बहु
सम्मतम् । 'सत्त्वं लघु प्रकाशकम् -' (सांख्यकारिका-१३) । 'रघु' इत्यन्ये
पठन्ति ।
 
(689)
 
लवणम्" (सा.)
 
रुच्यर्थकोऽयम् । लवणंकृत्य । साक्षात्प्रभृतिषु पाठादू कृञो योगे
 
..
 
गतिसंज्ञायां समासे ल्यप् । 'गतिसंज्ञासन्नियोगेन लवणादीनां मकारान्तत्वं
 
निपात्यते' इति काशिका (1-4-74)। 'साक्षात्कृतेऽथ लवर्णकृति दिङ्मुखा
नाम् –' (गणरत्नोदूधृतरिछत्तपश्लोकः) ।
 
अस्मादेवाभिरुच्यर्थकादव्ययात् भावार्ये ब्राह्मणादित्वेन ( 5-1-124)
व्यञ्प्रत्यये, 'अव्ययानां भमाले –' (वा. 6-4-144) इति टिलोपे च 'लाव-
म्यम्' इति सम्पद्यते ।
 
-